अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्य अस्तातिप्रत्ययस्य लुग् भवति। प्राच्यां दिशि वसति। लुक् तद्धितलुकि
१।२।४९ इति स्त्रिप्रत्ययो ऽपि निवर्तते। प्राग् वसति। प्रागागतः। प्राग् रमणियम्। प्रत्यग् वसति। प्रत्यगागतः। प्रत्यग् रमणीयम्।
दिक्शब्दादित्यधिकारात्केवलस्य चाञ्चतेरदिक्शब्दत्वात्? "अञ्चेः" इत्यञ्चूत्तरपदस्य निर्देशोऽयं विज्ञायते, अत एवाह--"अञ्चत्यन्तेभ्यः" इति। "दिक्शब्देब्यः" इति। "प्राग्वसति" इति। प्रपूर्वादञ्चतेः "ऋत्विक्()"
३।२।५९ इत्यादिना सूत्रेण क्विन्(), "अञ्चतेश्चोपसंख्यानम्()" (वा। ३३६) इति ङीप्(), "अचः"
६।४।१३८ इत्यल्लोपः, "चौ"
६।३।१३७ इति दीर्घः--प्राची इति स्थिते, अस्तातिः, तस्य लुक्(), क्विन्प्रत्ययस्य कुः"
८।२।६२ इति कुत्वम्()। "प्रत्यक्()" इति।
प्रतीचीशब्दात्? प्रत्ययः, स तु पूर्ववदुपपाद्यः॥