अचः इत्ययम् अञ्चतिर्लुप्तनकारो गृह्यते। तदन्तस्य भस्य अकारस्य लोपो भवति। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे।
"अच इत्ययमञ्चतिर्लुप्तनकारो गृह्रते" इति। कुत एतत्(),
प्रत्याहारः कस्मान्न गृह्रते? "अल्लोपः"
६।४।१३४ इत्यानुवृत्तेर्न शक्यते प्रत्याहारो ग्रहीतुम्()। प्रत्याहारग्रहणे सति तेनाकारो विशिध्येत, तथा चानर्थकं प्रत्याहारग्रहणं स्यात्()। न ह्रकारोऽचत्वं व्यभिचरति। ननु चाङ्गं प्रकृतम्(),
तत्? प्रत्याहारेण विशिष्यते--अजन्तस्याङ्गस्येति? न; एवं सत्यजन्तस्याङ्गस्याल्लोपो भवतीत्येष सूत्रार्थः स्यात्()। तथा च "यस्येति च"
६।४।१४८ इति लोपोऽनर्थकः स्यात्(); अनेनैव सिद्धत्वात्()। अपि च "द्युप्रागपागुदक्प्रतीचो यत्()"
४।२।१०० इत्येत्रमादिनिर्देशो लिङ्गं ह्रत्राप्रत्याहारग्रहणस्य। यदि हि प्रत्याहारग्रहण स्यात्(), अत्राञ्चतेग्र्रहणं न स्यात्(), न ह्रेतदजन्तमङ्गम्()।
अत एव निर्देशात्? पचाद्यजपि न गृह्रते।
न ह्रेतत्? पचाद्यजन्तमङ्गम्()। "दधीचः" इति। दध्यञ्चतीति ऋत्विगादिना
३।२।५९ क्विन्(), "आनिदिताम्()"
६।४।२४ इत्यादिनानुनासिकलोपः; "चौ"
६।३।१३७ इति दीर्घः॥