चौ परतः पूर्वपदस्य दीर्घो भवति। चौ इति अञ्चतिर्लुप्तनकाराकारो गृह्यते। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे। अन्तरङ्गो ऽपि यणादेशो दीर्घविधानसामर्थ्यान् न प्रवर्तते।
लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्गः। प्राचः। प्राचा। प्राग्भ्याम्॥ प्रत्यङ्। प्रत्यञ्चौ। प्रतीचः। प्रत्यग्भ्याम्॥ उदङ्। उदञ्चौ॥
"दधीचः" इति। दध्यञ्चतीति ऋत्विगादिना
३।२।५९ क्विन्(), ततः, शस्(), "अचः"
६।४।१३८ इत्यकारलोपः।
ननु चान्तरङ्गत्वाद्यणावेशेनात्राकारलोपाद्दीर्घाच्च प्राग्? भवितव्यम्(), स हि वर्णाश्रयत्वादन्तरङ्गः, इतरौ तु बहिरङ्गौ, अकारलोपो हि तस्य विधीयते, भसंज्ञा च यकारादावजादौ च स्वादौ विधीयते, दीर्घत्वमप्युत्तरपदे परतः पूर्वपदस्य विधीयमानं द्विपदाश्रयत्वत्द्बहिरङ्गम्(),
ततश्चान्तरङ्गे यणादेशे कृते पूर्वं चौ दीर्घत्वं न सिध्यति? इत्यत आह--"अन्तरङ्गोऽपि" इत्यादि। यदि यणादेश एव प्रवत्र्तते, तदा दीर्घवचनमनर्थकं स्यात्()। तस्माद्दीर्घवचनसामथ्र्याद्यणादेशो न प्रवत्र्तते।
ननु च कृते यणादेशेऽनन्तरो दीर्घभावो नास्तीत कृत्वा व्यवहितस्यापि दीर्घत्वं भविष्यति, यथा--"शमामष्टानां दीर्घः श्यनि"
७।३।७४ इति शमादीनां श्यनि दीर्घत्वम्(), तस्माद्भवितव्यमेवात्र यणादेशेन,
तथा च व्यवहितस्य दीर्घत्वे कृतेऽनिष्टं रूपं स्यात्()? नैतदस्ति; इदं च तावद्विचार्यताम्()।
किं तत्()? "तस्मिन्निति निर्दिष्टे पूर्वस्य"
१।१।६५ इत्येषा परिभाषा बाध्येत,
आहोस्विदन्तरङ्गपरिभाषेति? तत्रान्तङ्गपरिभाषाया लिङ्गादनुमानाद्वा सिद्धा,
तस्या हि "वाह ऊठ्? ६।४।१३२ इत्यूङ्वचनं लिङ्गम्()। यथा चैतल्लिङ्गं तथा तत्रैव वृत्तिकारो दर्शयिष्यति।
इतरा तु परिभाषा साक्षात्? श्रुता। तत्र युक्तं यदनुमितोऽर्थो बाध्यते, न तु साक्षाद्दृष्ट इत्यन्तरङ्गपरिभाषा बाध्यते, नेतरेति। तथा चानन्तरस्यैव दीर्घत्वेन भवितव्यमिति यणादेशो न प्रवत्र्तते॥