नौशब्दाद् द्व्यचश्च प्रातिपदिकाट् ठन् प्रत्ययो ह्बवति तरति इत्येतस्मिनर्थे। ठको ऽपवादः। नावा तरति नाविकः। द्व्यचः खल्वपि घटिकः। प्लविकः। बाहुकः। षकारः सांहितिको नानुबन्धः। बाहुका स्त्री। आकर्षात् पर्पादेर् भस्त्रादिभ्यः कुसीदसूत्राच् च। आवसथात् किशरादेः षितः षडेते ठगधिकारे। विधिवाक्यापेक्षं च षट्त्वं, प्रत्ययास् तु सप्त।
इह प्रकरणे केषुचित् संहितिकः षकारो दृष्टः, केषुचित्प्रत्ययस्यैवानुबन्धः;
तदिह ठगधिकारे न ज्ञायते-- कः सांहितिकः? कः प्रत्ययानुबन्धः? इति। अतोऽसन्देहार्थं परिगणनं कृतम्। तच्च "आकर्षात्पर्पादिभ्यः" इत्यादिना श्लोकेन करोति। "आकर्षात् ष्ठल्"
४।४।३१, "पर्गादिभ्यष्ठन्"
४।४।१०, "भस्त्रादिभ्यष्ठन्"
४।४।१६, "कसुसीददशैकदशात् ष्ठन्ष्ठचौ"
४।४।३१, "आवसथात् ष्ठल्"
४।४।७४, "किशरादिभ्यः ष्ठन्"
४।४।५३ इति वितः षडेते। ननु च "अन्यतो ङीष्"
४।१।४० इत्यादयोऽन्येभ्योऽपि वितः सन्त्येव।
तत्किमुच्यते षडेते? इत्यत आह-- "ठगधिकारे" इत्यादि। ठकः प्रकृतत्वात् तदधिकारे ये षितः त एव परिगृह्रन्त इति दर्शयति।
नन्वेवमपि सति सप्त भवन्ति, कुसादादि (४।४।
३१) सूत्रे षित्प्रत्ययद्वयविधानात्? इत्यत्राह-- "विधिवाक्यापेक्षं तु षट्त्वम्" इति। षितः प्रत्ययानां सप्तत्वात्। एतेनैव योगाः षितः प्रयुक्ताः। षित्प्रत्ययार्थाः षडेते योगा इत्यर्थः॥