तेन इति तृतीयासमर्थाच् चरति इत्येतस्मिन्नर्थे ठक् पत्ययो भवति। चरतिर् भक्षणे गतौ च वर्तते। दध्ना चरति दधिकः। हास्तिकः। शाकटिकः।
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥
चरति। गच्छतिभक्षयतीति। "चरगतिभक्षणयो"रिति चरधातोरर्थद्वये वृत्तेरिति भावः। हास्तिक इति। ठनि इके "नस्तद्धिते" इति टिलोपः