सूत्रम्
पर्पादिभ्यः ष्ठन्॥ ४।४।१०
काशिका-वृत्तिः
पर्पाऽदिभ्यः ष्ठन् ४।४।१०
पर्प इत्येवम् आदिभ्यः ष्ठन् प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे। ठको ऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पर्पिकः। पर्पिकी। अश्विकः। अश्विकी। पर्प। अश्व। अश्वत्थ। रथ। जाल। न्यास। व्याल। पाद। पञ्च। पदिक। पर्पादिः।
न्यासः
पर्पादिभ्यः ष्टन्। , ४।४।१०
पर्पादिषु "पादः पच्च" इति पठ()ते, तस्याययमर्थः-- पादशब्दात् ष्ठन् प्रत्ययो भवति तत्सन्नयोगेन चपदित्ययमादेशः पदिकः, पदिकी। यद्येवं "पद्यत्यतदर्थे"
६।३।५२ इति "पद्भाव इके चरतावुपसंख्यानम्" (वा।
७४०) इतिकस्मादुपसंख्यायते? नैष दोषः; "पादः पत्"
६।४।१३० इत्यस्यापौराणिकत्वात्॥
बाल-मनोरमा
पर्पादिभ्यः ष्ठन् १५३७, ४।४।१०
पर्पादिभ्यः ष्ठन्। ष्ठन् इति च्छेदः। "चरतीत्यर्थे तृतीयान्तेभ्य" इति शेषः। षित्त्वं ङीषर्थमित्याह--पर्पिकीति। अ()इआक इति। अ()ओन चरतीत्यर्थः।
तत्त्व-बोधिनी
पर्पादिभ्यः ष्ठन् ११९३, ४।४।१०
पर्प इति। "पर्प गतौ"। "हलश्चे"ति करणे घञ्। इहन्तर्गणसूत्रं "पादः पच्चे"ति। पादाभ्यां चरति पदिकः। यत्तु वार्तिकं "पद्भाव इके चरतावुपसङ्ख्यान"मिति सोऽस्यैव प्रपञ्चः। प्रप, अ()आ, अ()आत्थ, रथ, जाल,(जल()) न्या, व्याल, पादः पत्।