इह "अणिञोः" इति प्रत्ययमात्रं वा गृह्रते? तदन्तो वा समुदायः? तत्र यद्याद्यः पक्ष आश्रीयेत, "गुरूपोत्तमयोः" इति विशेषणं नोपपद्येत। न ह्रणिञोर्गुरूपोत्तमत्वं सम्भवति,
कस्य तर्हि? तदन्तस्य समुदायस्य। तस्माद्द्वितीयः पक्ष आश्रयितुं युक्त इति मत्वाऽऽह-- "गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोः" इति। यदि तर्हि समुदायस्याणन्तस्येञन्तस्य चेदं ग्रहणम्, "अनार्षयोः" इति विशेषणं न प्रकल्प्येत; समुदायस्य ऋषादेव विधानात्। अणिञोस्तु प्रकल्प्यत एतद्विशेषणम्; तयोरृषादन्यतर् च विधानात्। "गोत्रे" इत्यपि विशेषणमणिञोरेव युक्तम्, न समुदायस्य; तथा हि "अपत्यं पौत्रप्रभृति गौत्रम्"
४।१।१६२ इति परिभाषिकं गोत्रमिह गृह्रते,तत्र चाणिञावेव विहितौ,
न समुदायः? नैष दोषः; समुदायस्यैते विशेषणे न सम्भवत इति सामथ्र्यादेकदेशयोरणिञोर्विज्ञायेते। अत एव वृत्तावाह-- "गोत्रे यावणिञौ विहितावनार्षौ" इति।
इहायं ष्यङादेशो वा स्यात्? प्रत्ययो वा? ननु च षष्ठीनिर्देशादादेशेनैवानेन भवितव्यमिति असन्दिग्धमेतत्,
तदयुक्ता द्वितीयपक्षाशङ्का? नैतदस्ति; प्रत्ययविधावपि षष्ठीनिर्देशो दृश्यते, यथा-- "गापोष्ठक्"
३।२।८ "व्रीहिशाल्योर्ढक्"
५।२।२ इति,तस्मात् प्रत्ययपक्षशङ्कापि युक्तैव। तत्र यदि प्रत्ययः स्यात्, औदमेधेय इति न सिध्येत्। उदमेघस्यापत्यं स्त्री-- "अत इञ्"
४।१।९५, तदन्तादनेन ष्यङ्, इकारस्व यस्येति
६।४।१४८ लोप), "यङ्श्चाप्"
४।१।७४, औदमेध्या, तस्या अपत्यमिति "स्त्रीभ्यो ढक्"
४।१।१२० , एयादेशः। तस्मिन् "आपत्यस्य च तद्धितेऽनाति"
६।४।१५१ इति यलोप इष्यते, स न प्राप्नोति; अनापत्ययकारत्वात्। ननु च "हलस्तद्धितस्य" (६।४।
१५०) इति चेत्? न; ईतीत्यत्रानुवत्र्तते। आदेशपक्षे त्वणिञोरपत्यत्वात् तदादेशस्यापि ष्यङः स्थानिवद्भावेनापत्यत्वमिति सिध्यति यलोपः। तस्मादादेशपक्ष एव साधुरित्यभिप्रायेणाह---"ष्यङादेशो भवति" इति। ननु चादेशपक्षेऽप्यौडुलोम्येति न सिध्यति, लोमशब्दो बाह्वादिषु पठ()ते। तस् केवलस्यापत्येन संयोगो नास्तीति तदन्तः समुदायो गृह्रते, तत उडुलोम्नोऽपत्यं स्त्री--बाह्वादित्वादिञि कृते तस्य च ष्यङादेशः। तत्र "नस्तद्धिते"
६।४।१४४ इति टिलोप इष्यते, स च न प्राप्नोति;"ये चाभावकर्मणोः"
६।४।१६८ इति प्रकृतिभावात्। प्रत्ययपक्षे त्विञो व्यवहितत्वात् ष्यङः प्रकृतिभावो नास्तीति भयति टिलोपः। नन "यस्येति च"
६।४।१४८ इति लोपे कृते नास्ति व्यवधानम्। "अचः परस्मिन् पूर्वविधौ"
१।१।५६ इति लोपस्य
६।४।१४८ इति लोपे कृते नास्ति व्यवधानम्। "अचः परस्मिन् पूर्वविधौ"
१।१।५६ इति लोपस्य स्थानिवद्भावादस्त्येव। आदेशपक्षेऽप्यदोषः; आनुपूव्र्या सिद्धत्वात्। न ह्रत्राकृते लोपे गुरुपोत्तमत्वं सम्भवति। तत्र प्रागेव ष्यङ इञि तस्यैव टिलोपः, ततो गुरुपोत्तमता। ततः ष्यङित्यानुपूव्र्या सिद्धत्वम्। अयं तह्र्रादेशपक्ष दोषः-- अनेकाल्त्वात् सर्वादेशः प्राप्नोति, "ङिच्च" (१।१।
५३) इत्यन्तस्य प्राप्नोतीति चेत्? नैतदस्ति; अपवादप्रतिषेधाद्धि सर्वादेशः प्राप्नोतीति। "ङिच्च"
१।१।५२ इत्यन्तादेशः क्रियताम्, आहोस्विदनेकाल्त्वात् सर्वादेशः, तत्र परत्वात् सर्वादेशः प्राप्नोति, यथा-- "तुह्रोस्तातङ्ङाशिष्यन्यतरस्याम्" (७।१।
३५)? इत्यत आह-- "निर्दिश्यमानस्य" इत्यादि। यथा पाच्छब्दस्य पदित्ययमादेशो विज्ञायते न पाच्छब्दान्तस्य समुदायस्य, तथाऽयमपि निर्दिश्यमानयोरणिञोरेव विज्ञायते।
तत् क्व तर्हि सर्वादेशेन भवितव्यम्? यत्र समुदायात् षष्ठ्युच्चारिता, यथा--तुह्रोरिति। "ङकारः सामान्यग्रहणार्थः" इति। असति हि तत्र "यङश्चाप्"
४।१।७४ इत्यत्र "वृद्धेत्कोसलाजादाञ्ञ्यङ्"
४।१।१६९ इत्यस्यैव ग्रहणं स्यात्, न ष्यङः। "षकारस्तदविघातार्थः" इति। तत्र ह्रसत्येकानुबन्धकग्रहणे न द्वयनुबन्धकस्य (व्या।प।५२) त्यस्यैव ग्रहणं स्यात्, न ञ्यङः।
उत्तमशब्दोऽयमस्त्येव व्युत्पन्नं तमबन्तं प्रातिपदिकम्, अस्त्यव्युत्पन्नम्। तत्र यदि व्युत्पन्नस्येदं ग्रहणं स्याद्वाराह्रेति न सिध्येत्; यस्माद्व्युतप्त्तिमानुत्तमशब्दश्चतुष्प्रभृतिष्ववतिष्ठते। यथा ह्रुच्छब्दादुद्गताभिधायिनस्तमप्प्रत्ययोऽतिशायने विधीयते। अनुद्गतञ्चापेक्ष्योद्गतो भवति। त्रिषु च द्वावुद्गतौ,एकोऽनुद्गतः,न च द्वयोरयं चोद्गत इत्ययमनयोरतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते; तरपा विशेषविहितेन बाधितत्वात्। चतुर्षु तु त्रय उद्गताः, एकोऽनुद्गतः, ततर् त्रीनुद्गतानपेक्ष्यायञ्चोद्गतः। अयं चैषामतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते, तस्माच्चतुर्ष्वेव प्राप्नोति; तत्र चोत्तमशब्दस्य स्वरूपसिद्धेः, ततश्च वाराह्रेति न सिध्येत्। न ह्रत्र चत्वारः सन्तीत्येतदालोच्याव्युत्पन्नोऽयमिहोत्तमशब्दो गृह्रत इति दर्शयन्ननाह-- "उत्तमशब्दः स्वभावात्" इत्यादि। अध्युत्पन्न एव ह्रुत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमाह, न व्युत्पन्नः। स हि चतुष्प्रभृतीनामन्त्यमाह, तस्मात् "उत्तमशब्दः स्वभावात्" इत्यादिना ग्रन्थेनाव्युत्पन्नस्योत्तमशब्दस्येह ग्रहणमिति दर्शितं भवति। तदेवमव्युत्पन्नस्य ग्रहणे वाराहीत्येतदपि सिद्धं भवति।
"टिड्()ढाणञिति ङीबेव भवति" इति। प्रमादपाठोऽयम्। यथैव हि बैदीति जातित्वादञन्तात् "शाङ्र्गरवाद्यञो ङीन्"
४।१।७३ इति ङीन् भवति, तथेहापि ङीनैव भवितव्यम्। जातित्वं तु गोत्रत्वात्। तस्मात् "शाङ्र्गरवाद्यञो ङीन् इति ङीनेव भवति" इत्ययमेवात्र पाठो द्रष्टव्यः।
"वासिष्ठी, वै()आआमित्री" इति। "ऋष्यन्ध"
४।१।११४ इत्यादिनिऽण्। "औपगवी, कापटवी" इति। उपगुकपटुशब्दाभ्यामौत्सर्गिकोऽण्, "ओर्गुणः"
६।४।१४६।
"आहिच्छत्री। वै()आआमित्री" इति। "तत्र जातः"
४।३।२५ इत्यण्॥
अणिञोः। त्र्यादीनामन्त्यमुत्तममिति। तथा भाष्यादिति भावः। तस्य समीपमुपोत्तममिति। सामीप्येऽव्ययीभाव इति भावः। गुरु-उपोत्तमम्-उत्तमसमीपवर्ति ययोरिति विग्रहः। प्रातिपदिकादित्धिकृतं षष्ठीद्विवचनेन विपरिणम्यते। उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरिति लभ्यते। "अणिञो"रित्यनेन प्रत्ययग्रहणपरिभाषयाञन्तयोग्र्रहणम्। "गोत्रे" इत्येतत् अणिञोरन्वेति। ऋषेरविहितौ-अनार्षौ। इदमपि अणिञोविशेषणं। स्त्रियामित्यधिकृतम्। तदाह गोत्रे यावणिञावित्यादिना। आदेशः स्यादिति। स्थानषष्ठीनिर्देशादादेशत्वलाभः।
ननु अणिञन्तयोः श्यङादेशोऽयमनेकाल्त्वात्सर्वादेशः स्यादित्यत आह--निर्दिश्यमानस्येति। तथा च अणिञोरेवायमादेश इति भावः। "ङिच्चे"त्यन्तादेश इति तु न युक्तं, ङित्त्वस्य ष्यङः सम्प्रसारण"मित्यादौ चरितार्थत्वात्। कुमुदगन्धेरिति। कुमुदगन्ध इव गन्धो यस्येति विग्रहः। "सप्तम्युपनानपूर्वपदस्य बहुव्रीहिर्वाच्यः, उत्तरपदलोपश्चे"ति बहुव्रीहिः, पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च। "उपमानाच्चे"ति इत्त्वं। कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण्। "यस्येति चे"ति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः। तत्समीपवर्ती गुरुः गकारादकारः, "संयोगे गुरु" इत्युक्तेः। नचाऽनुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यं, येन नाव्यवधानं तेन व्यवहितेऽपी"ति न्यायेन हला व्यवधानस्याऽदोषत्वात्। नह्रणि परेऽव्यवहितो गुरुः क्वचिदस्ति। एवंच गुरूपोत्तमं प्रातिपदिकं कौमुदगन्धेत्यणन्तं, तदवयवस्य अमः ष्यङादेशे "यङश्चा"विति चापि कौमुदगन्ध्याशब्द इत्यर्थः। इञन्तस्योदाहरति--वाराह्रेति। वराहस्यापत्यं स्त्री विग्रहः। अत इञ्। अकारलोपः। वाराहिशब्दः। तत्र इकार उत्तम#ः। रेफादाकार उत्तमसमीपवर्ती गुरुः इञ इकारस्य ष्यङादेशः, चाविति भावः। वासिष्ठी वै()आआमित्रीति। ऋष्यणन्तावेतौ औपगवीति। अणन्तत्वेऽपि गुरूपोत्तमत्वाऽभावान्न ष्यङ्। जातिलक्षण इति। "गोत्रं च चरणैः सहे ति जातित्वम्। आहिच्छत्रीति। जातार्थे अणयं, नतु गोत्र इति न ष्यङ्। नच ष्यङ्प्रत्यय एव कुतो न विधीयते इति वाच्यं, तथा सति उदमेघस्यापत्यं स्त्रीति विग्रहेऽत इति ष्यङि चापि औदमेध्या, तस्या अपत्यं ओदमेधेय इति न सिध्येत्, अस्यापत्यप्रत्ययत्वाऽभावेन यलोपाऽप्राप्तेरिति स्पष्टं भाष्ये।