सूत्रम्
व्रीहिशाल्योर्ढक्॥ ५।२।२
काशिका-वृत्तिः
व्रीहिशाल्योर् ढक् ५।२।२
व्रीहिशालिशब्दाभ्यां ढक् प्रत्ययो भवति भवने क्षेत्रे अभिधेये खञो ऽपवादः। व्रीहीणां भवनं क्षेत्रम् व्रैहेयम्। शालेयम्।
लघु-सिद्धान्त-कौमुदी
व्रीहिशाल्योर्ढक् ११६८, ५।२।२
व्रैहेयम्। शालेयम्॥
न्यासः
व्रीहिशाल्योर्ढक्?। , ५।२।२
बाल-मनोरमा
व्रीहिशाल्योर्ढक् १७८०, ५।२।२
व्रीहिशाल्योर्ढक्। व्रीहिशब्दाच्छालिशब्दाच्च षष्ठ()न्ताद्भवने क्षेत्रे।ञर्थे ढगित्यर्थः। खञोऽपवादः।
तत्त्व-बोधिनी
व्रीहिशाल्योर्ढक् १३७२, ५।२।२
व्रीहिशाल्योः। अत्रापि निर्देशादेव षष्ठी समर्थविभक्तिः। सा च भवनापेक्षया कर्तरीत्यादि पूर्ववत्।