लिडादेशः तिङार्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। पेचिथ। शेकिथ। जग्ले। मम्ले। ननु च एकसंज्ञाधिकारादन्यत्र समावेशो भवति? सत्यम् एतत्। इह तु एवकारो ऽनुवर्तते, स नियमं करिस्यति।
"शेकिथ" इति। आर्धधातुकत्वाल्लिटः "ऋतो भारद्वाजस्य"
७।२।६३ इतीट्। तत्र ऋत एव भारद्वाजस्य नान्येषां धातूनामित्येषोऽर्थोऽभिमतः। "थलि च सेटि"
६।४।१२१ इत्येत्वाभ्यासलोपौ। "जग्ले, मम्ले" इति। आर्धधातुकत्वात् "आतो लोप इटि च"
६।४।६४ इत्याकारलोपः।
"ननु च " इत्यादिना यदुक्तं "सार्वधातुकसंज्ञाया अपवादः" (का।३।४।११५) इति तद्विघटयति। एकसंज्ञाधिकारादन्यत्र समावेशो भवति, यथा-- त्ययादिसंज्ञानाम्। न चात्रैकसंज्ञाधिकारोऽस्ति,तदयुक्तमस्याः सार्वधातुकसंज्ञाया अपवादत्वमित्यभिप्रायः।"सत्यमेतत्ित्यादिना अपवादत्वमेव समर्थयते॥
लिट् च। "लि"डिति लुप्तस्थानषष्ठ()न्तम्। "तिङ्()शित्सार्वधातुक"मित्यस्मात्तिङित्यनुवर्तते। "आद्र्धधातुकं शेष" इत्यस्माद्र्धधातुकमिति। तदाह--लिडादेशस्तिङिति। एकसंज्ञाधिकारबहिर्भूतत्वात्सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह--आद्र्धधातुकसंज्ञ एवेति। "लङः शाकटायनस्यैवे"ति सूत्रादेवकारानुवृत्तेरिति भावः। तेनेति। सार्वधातुकतवाऽभावेन तन्निमित्ताः शप्श्यनादयो न भवन्तीत्यर्थः।