आशिषि विषये यो लिङ् स आर्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। समावेशश्च एवकारानुवृत्तेर्न भवति। लविषीष्ट। पविषीष्ट। आशिषि इति किम्? लुनीयात्। पुनीयात्।
"{लविषीष्ठा" इति मु।पाठः} लविषीष्ट" इति। थास् , "सुट् तिथोः"
३।४।१०७ इति सुट्, षष्वम्, ष्टत्वञ्च॥