सूत्रम्
थलि च सेटि॥ ६।४।१२१
काशिका-वृत्तिः
थलि च सेति ६।४।१२१
थलि च सेटि परतो ऽनादेशादेः अङ्गस्य एकहल्मध्यगतस्य अतः स्थाने एकार आदेशो भवति, अभ्यासलोपश्च। पेचिथ। शेकिथ। सेटि इति किम्? पपक्थ। थल्ग्रहणं विस्पष्टार्थम्। अक्ङिदर्थम् एतद् वचनम् इति अन्यस्येटो ऽसम्भवात्। अतः इत्येव, दिदेविथ। एकहल्मध्यगतस्य इत्येव, ततक्षिथ। ररक्षिथ। अनादेशादेरित्येव, चकणिथ। बभणिथ।
लघु-सिद्धान्त-कौमुदी
थलि च सेटि ४६३, ६।४।१२१
प्रागुक्तं स्यात्। नेदिथ। नेदथुः। नेद। ननाद, ननद। नेदिव। नेदिम। नदिता। नदिष्यति। नदतु। अनदत्। नदेत्। नद्यात्। अनादीत्, अनदीत्। अनदिष्यत्॥ टु नदि समृद्धौ॥ ८॥
न्यासः
थलि च सेटि। , ६।४।१२१
"पेचिथ, शेकिथ" इति। "उपदेशेऽत्वतः"
७।२।६२ इतीट्प्रतिषेधप्राप्तः "ऋतो भारध्वाजस्य"
७।२।६३ इति नियमादिहेङभवति। तदयमत्रार्थः--ऋत एव भारध्वाजस्ये#एति, नान्येषां धातूनामिति।
"पपक्थ" इति। अन्येषामाचार्याणां मतेनेट्प्रतिषेधो भवत्येव।
अथ थल्ग्रहणं कमर्थम्(), "न सोटि इत्येवोच्येत; यत्र हि पूर्वेण न सिद्ध्यते तदर्थं वचनम्(),
अन्यत्रेडादौ कित्त्वात्? पूर्वेणैव सिद्धम्(),
तत्रान्तरेणापि थल्ग्रहणं थल्येव भविष्यति? इत्यत आह--"थल्ग्रहणम्()" इत्यादि असति थल्ग्रहणे,
आरम्भसाथ्र्यादेतावान्? निश्चयः स्यात्()--यत्र पूर्वेण न सिद्ध्यति तदर्थमेतदिति।
अक्ङिदर्थमित्येतत्? तु दुरवसानम्(); बहवो विशेषाः प्रकान्ताः,
तत्र सन्देहः स्यात्()--किमक्ङिदर्थमेतत्? स्यात्(),
उतादेशार्थम्()? आहोस्विदनेकहल्मध्यार्थम्()? किमु अनेकाकारार्थमिति? तत्रासन्देहार्थम्? "अत एकहल्मध्येऽनादेशादेर्लिटि"
६।४।१२० इत्येते विशेषाः सर्व एवेहानुवत्र्तन्ते। क्ङिद्ग्रहणन्तु निवृत्तम्()।
तस्मात्? क्ङिदर्थोऽयमारम्भः। न च थलोऽन्यदिहाक्ङिदस्ति सेट्()।
ततः सामर्थात्? थल्येवायं विधिव्र्याख्येयः। व्याख्यानद्वारेण प्रतिपत्तौ मन्दधियां प्रतिपत्तिगौरवं स्यात्()। तस्माद्विस्पष्टार्थं थल्ग्रहणं क्रियते। थलो ह्रक्ङित उपादाने सुखमेव प्रतीयते--अक्ङिदर्थोऽयमारम्भ इति॥
न्यासः
राधो हिंसायाम्?। , ६।४।१२१
"राधो हिंसायामर्थे" इत्यादि। यद्यपि "राध साध संसिद्धौ" (धा।पा।१२६२,२३६३) इति राधिः संसिद्धौ पठ()ते, इह तथाप्यनेकार्थत्वाद्धातूनां हिंसार्थता वेदितव्या। राधेर्हिसायमर्थेऽवर्णस्यैकारादेशो भवतीत्युच्यते।
ननु च नात्र सूत्रेऽवर्णग्रहणमस्ति, योऽप्यत्रत्योऽवर्णः प्रकृतः सोऽपि मात्राकालः, न च राधेर्मात्राकलोप्रऽवर्णोऽस्ति, तत्? कथमवर्णस्य स्थान एत्त्वं लभ्यते? इति यश्चोदयेत्? तं प्रत्याह--"अत इत्येतदिहोपस्थितम्()" इत्यादि। "अतः" इति स्वरितत्वादिहोपस्थितम्(), यदिहोपस्थितं तत्? तपरत्वकृतस्य कालविशेषस्याभावात्? तदपास्य=परित्यज्यावर्णमात्रं स्थानित्वेन प्रत्याययति=दोधयति; अन्यथा तस्योपस्थानमनर्थकं स्यात्()।
"अथ वा" इत्यादि। "श्नाभ्यास्तयोः" (६।४।११२) इत्यनेन यतः सूत्रात्? स्थान्यनुवत्र्तते तदुपलक्षयति। "आतः" इत्यनेनापि यः स्थान्यनुवत्र्तते तं दर्शयति--"श्नाभ्यरत्तयोरात्? इत्यत आत इत्यनुवत्र्तत इति व्याख्येयम्()" इति। एवञ्च व्याख्यायमाने राधेरवर्णस्येत्त्वं विज्ञायते यदि तह्र्रत इत्यनुवत्र्तते, एवञ्च सति "अत एकहल्मध्ये" (६।४।१२०) इत्यत्रापि तस्यातः सन्निधानादिहापि प्राप्नोति--शशासिव शशसिमेति? नैष दोषः; मण्डूकपलुतिन्यायेन तस्येहानुवृत्तिः।
"एकहल्मध्ये वा" इत्यादि। अथ वा--एकहल्मध्य इत्यनुवत्र्तते, तत्राप्यनुवत्र्तमानेऽसम्भवादत इतीह न व्याप्रियते। तेन राधेर्यः एकहल्मध्येऽवयवः स स्थानी भवति, स पुनराकार एव भवति, तस्यैवैत्त्वं भविष्यति॥
बाल-मनोरमा
थलि च सेटि १०५, ६।४।१२१
थलि च। प्रागुक्तमिति। एकहल्मध्य इति यत्प्रागुक्तम्-- एत्वादि, तत्सेटिथलि च स्यादित्यर्थः। थलः कित्त्वाऽभावात्पूर्वसूत्रेणाऽप्राप्तौ वचनम्। ननु देधे पेततुरित्यादौ "अभ्यासे चर्चे"ति जशां चरां च जशि चरि च लिण्निमित्तादेशादित्वात्कथमेत्वाभ्यासलोपावित्यत आह----आदेशश्चहेति। इह = "अत एकहल्मध्ये" इति सूत्रे, आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः। तथा च तथाविधादेशादेरेव एत्त्वाभ्यासलोपौ न भवतः, स्थानिसरूपादेशास्तु न पर्युदास इत्यर्थः। शसिदद्योरिति। "न शसददवादिगुणाना"मिति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते। यदीह यथाकतंचिदादेशादेः पर्युदासः स्यात्तर्हि शसिदद्योरभ्यासे शकारदकारयोश्चर्()जशोः शकारदकारादेशे सति आदेशादित्वादेव एत्वाभ्यासलोपयोरभावसिद्धौ "न शसददवे"ति तत्प्रतिषेधोऽनर्थकः स्यात्। अतो वैरूप्यसंपादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः। तेनेति। स्थानिसरूपादेशादेः पर्युदासाऽभावादित्यनेनेत्यर्थः। सत्स्वपीति। देधे पेततुरित्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः। देधे इति। दध् दध् ए इति स्थिते दकारादकारस्य एत्त्वेऽभ्यासलोपे च रूपम्। "असंयोगाल्लिट्क"दिति कित्त्वमिह बोध्यम्। देधिर इति। देधिषे देधाथे देधिध्वे। देधे देधिवहे देधिमहे इति रूपाणि संभवन्तीति भावः। दिदिवतुरिति। दिव्धातोरतुसि द्वित्त्वे हलोर्मध्येऽतोभावादेत्त्वाभ्यासलोपौ नेति भावः। तत्परः किमिति। "अत" इति तपरकरणं किमर्थमित्यर्थ-। ररासे इति। "रासृ शब्दे" भ्वादिरात्मनेपदी। अत्र हल्मध्यस्थस्येति किमर्थमित्यर्थः। तत्सरतुरिति। "त्सर च्छद्मगतौ"। लिटोऽतुसि द्वित्वे अभ्यासाऽकारस्य नाऽसंयुक्तहल्मध्यस्थत्वमिति भावः। चकणतुरिति। "कण शब्दे" लिटोऽतुसि द्वित्वे कुहोश्चुरिति ककारस्य चुत्वेन चकारः। तथा च वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपौ नेति भावः। अथ "लिण्निमित्तादेशादिक"मित्यत्र लिण्निमित्तेत्यस्य प्रयोजनमाह--लिटेति। नेमिथेति। "णमु प्रह्वत्वे शब्दे च"। "णो नः" इति नत्वम्। थलि इटि द्वित्वे नत्वसंपन्ननकारादेशादित्वेऽपि नत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ निर्बाधाविति भावः। सेहे इति। "षह मर्षणे"। "धात्वादेः षः सः" इति सत्वे लिटि द्वित्वे सत्वसंपन्नसकारादेशादित्वेऽपि सत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वविरहादेत्त्वाभ्यासलोपा निर्बाधाविति भावः। दधिता। दधिष्यते। दधताम्। अदधत। दधेत। दधिषीष्ट। अदधिष्ट। अदधिष्यत। स्कुदीति। उत्प्लवनमुत्प्लुत्य गमनम्।
तत्त्व-बोधिनी
थलि च सिटि ८०, ६।४।१२१
चकणतुरिति। न चैवमपि बभणतुरित्यत्र "अभ्यासे चर्चे"त्यस्याऽलसिद्धत्वादेत्वाभ्यासलोपौ स्त एवेति वाच्यं, फलभजग्रहणेन एत्वविधिं प्रति तत्सूत्रस्य सिद्धत्वज्ञापनात्। एवं चादेशश्चेह वैरूप्यसंपादक एव गृह्रते इति व्याख्यानमवश्यं कर्तव्यमवेति दिक्।