कर्म क्रिया। व्यतिहारः परस्परकरणम्। कर्मव्यतिहारे गम्यमाने धातोः णच् पत्ययो भवति स्त्रीलिङ्गे वाच्ये। तच् च भावे। चकारो विशेषणार्थः णचः स्त्रियाम् अञ्
५।४।१४ इति। व्यावक्रोशी। व्यावलेखी। व्यावहासी वर्तते।
स्त्रियाम् इति किम्? व्यतिपाको वर्तते। बाधकविषये ऽपि क्वचिदिष्यते, व्यावचोरी, व्यावचर्ची। इह न भवति। व्यतीक्षा, व्यतीहा वर्तते। व्यात्युक्षी भवति।
तदेतद् वैचित्र्यं कथं लभ्यते? कृत्यल्युटो बहुलम्
३।३।११३ इति भवति।
"दातोः"
३।१।९१ इत्यधिकाराद्धातुवाच्यं यत्कर्म तदव गृह्रते,न साधनकर्म। न हि धातोस्तत्र वृत्तिरस्तीति मत्वाऽऽह-- कर्मं क्रिया"इति। "चकारो विशेषणार्थः" इति।
अन्तोदत्तार्थश्चकारः कस्मान्न भवति? नार्हत्यन्तोदात्तार्थो भवितुम्; णजन्तादञो विधानात्। सतिशिष्टस्वरेणाद्युदात्तेन भवितव्यम्,तत्र कुतोऽन्तोदात्तस्य सम्भवः। तस्माद्विशेषणार्थ एव चकारः। "स्त्रियाम्" इत्युच्यमाने "प्रज्ञाश्रद्धार्चाभ्यो णः"
५।२।१०० इति प्राज्ञेत्यत्रापि स्यात्। "व्यावक्रोशी" इत्यादि। "क्रुश { आह्वाने रोदने च--ध।पा।}, "लिख अक्षरविन्यासे" (धा।पा।१३६५),"हसे हसने" (धा।पा।७२१)--एभ्यो णच्, "णचः स्त्रियाम्"
५।४।१४ इति स्वार्तेऽञ्, "टिड्()ढाणञ्"
४।१।१५ इति ङीप्, "न कर्मव्यतिहारे"
७।३।६ इत्यैजागमप्रतिषेधः। आदिवृद्धिरेव भवति।
"व्यतिपाकः" इति। तत्र पुंल्लिङ्गत्वाद्भावस्य घञ् भवति। अथ "स्त्रियां क्तिन्"
३।३।९४ इत्यस्मिन्नेव प्रकरणे णच् कस्मान्नोक्तः, कः पुनरेवं सति गुणो भवति,
द्विः स्त्रियांग्रहणं न कत्र्तव्यं भवित? अस्ति गुणः,वासरूपविधिस्तु न स्यात् ; अस्त्रियामिति प्रतिषेधात्। ततश्च क्तिनो णचासमावेशाभावाद्व्यावक्रुष्टिरिति न सिध्येत्। इह तु क्रियमाणे णच् सिध्यति; यस्मात् "वाऽसरूपोऽस्त्रियाम्"
३।१।९४ इत्यत्र स्त्रीग्रहणस्य च स्वरितत्वात् स्त्र्यधिकरारविहितप्रत्ययविषय एव "अस्त्रियाम"
३।१।९४ इति प्रतिषेधो विज्ञायते,न स्त्रीप्रत्ययमात्रविषये। तस्माद्यथान्यसमेव न्याय्यम्।
"व्यावचोरी, व्यावचर्ची" इति। "चुर स्तेये" (धा।पा।१५३४), "चर्च अध्ययने" (धा।पा।१७१२)-- आभ्यां चुरादिणिजन्ताभ्याम् "ण्यासश्रन्थो युच्"
३।३।१०७ इति युच् प्राप्नोति, स च विशेषविहितत्वात् परवाच्च बाधकः, तथापि तद्विषये तु णजेवेष्यते। "व्यतीक्षा,व्यतीहा" इति। "ईक्ष दर्शने" (धा।पा।६१०), "ईह चेष्टायाम्" (धा।पा।६३२) -- आभ्यां "गुरोश्च हलः"
३।३।१०३ इत्यकारएव प्रत्ययो भवति। न णच् शक्यः कर्त्तुम्;यस्मात् क्वचिद्बाधकविषये स इष्यते, न सर्वत्र। बाधकत्वं त्वकारप्रत्ययस्य पूरववद्वेदितव्यम्। "व्यात्युक्षी"इति। "उक्ष सेचने" (धा।पा।६५७)। अत्र बाधकस्याप्यकारस्य विषये णजेव भवति। "तदेतद्वैचित्र्यं कथं लभ्यते" इति। न कथञ्चित्। तल्लाभहेतोरभावादिति भावः। "कृत्यल्युटो बहुलम्"
३।३।११३ इत्यनेन। अतो हेतोर्वेचित्र्यमेतल्लभ्यत इति दर्शयति॥