तौ शतृशानचौ सत्संज्ञौ भवतः। तौग्रहणम् उपाद्यसंसर्गार्थम्। शतृशानज्मात्रस्य संज्ञा भवति। ब्राह्मणस्य कुर्वन्। ब्राह्मणस्य कुर्वाणः। ब्राह्मणस्य करिष्यन्। ब्राह्मणस्य करिष्यमाणः। सत्प्रदेशाः पूरणगुणसुहितार्थसद्। अव्ययतव्यसमानाधिकरणेन
२।२।११ इत्येवम् आदयः।