पूङो यजेश्च धातोः शानन् प्रत्ययो भवति। पवमानः। यजमानः। यदि प्रत्ययाः शानन्नादयः न लाऽदेशाः, कथं सोमं पवमानः,
नडमाघ्नानः इति षष्ठीप्रतिषेधः? तृनिति प्रत्याहारनिर्देशात्।
क्व संनिविष्टानां प्रत्याहारः? लटः शतृशानचावप्रथमासमानाधिकरणे
३।२।१२४ इत्यतः प्रभृति आ तृनो नकारात्। द्विषः शतुर्वा वचनम्। चौरस्य द्विषन्, चौरं द्विषन्।
वत्र्तमानविहिताः शतृशानच्प्रभृतयः।
एते लादेशा वा स्युः? प्रत्यया वा? तत्र यदि इह लट इत्यनुवत्र्तते तदा लादेशाः, अथ नानुवत्र्तते ततः प्रत्ययाः। तस्यादेशाः क्रियेरंस्तदा "नन्वोर्विभाषा"
३।२।१२१ इत्यतो विभाषाग्रहणमनुवत्र्तयितव्यं जायेत; अन्यथा पवते देवदत्तः, यजते देवदत्त इति तिङश्रवणं कुर्यात्। प्रत्ययलक्षणे तु वासरूपविधिना यदा लड् भवति तदा प्रत्ययश्रवणं तिङश्रवणमुपपद्यते। किञ्च, आदेशपक्षे "लः कर्मणि च भावे चाकर्मकेभ्यः"
३।४।६९ इति भावकर्मणोरपि शानन्नादयः स्युः, कत्र्तर्येव चेष्यन्ते। प्रत्ययपक्षे तु "कत्र्तरि कृत्"
३।४।६७ इति कत्र्तर्येव भवन्ति, न भावकर्मणोः, इह कतीह मण्डयमान इत्त्युत्तरसूत्रे चानशि कृते "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः"
६।१।१८० इतिनिघातः स्यात्, प्रत्ययपक्षे तु न भवति; अलसार्वधातुकत्वात्। चानशः "लः परस्मैपदम्"
१।४।९८ "तङानावात्मनेपदम्"
१।४।९९ इत्यात्मनेपदसंज्ञा प्रसज्येत, ततश्चात्मनेपदिभ्य एव स्यात्-- कतीह निघ्नाना इति। प्रत्ययपक्षे त्वलादेशान्न भवत्यात्मनेपदसंज्ञाप्रसङ्गः। तदेवमादेशपक्षे बहवो दोषाः प्रतिविधेयाः, प्रततिविधानेऽपि तेषां प्रतिपत्तिगौरवं भवतीति मत्वा प्रत्ययपक्षमाश्रित्याह-- "शानन्प्रत्ययो भवति" इति। शकारः सार्वधातुकसंज्ञार्थः। "पवमानः" इति। "पूङ पवने" (धा।पा।९६६), शप्, "आने मुक्"
७।२।८२।
"यदि" इत्यादि। "न लोकाव्यय"
२।३।६९ इत्यादौ तृन्निति तृन एव प्रत्ययस्य निर्देश इति मन्यमानस्य प्रश्नः। "तृन्निति प्रत्याहारनिर्देशात्" इति। "सोमं पवमानः, नडमाघ्नानः" इति। षष्ठीप्रतिषेध इत्यनेन सम्बन्धनीयम्। यदि तृन्निति प्रत्ययग्रहणं स्यात् तदा शानन्प्रभृतीनां प्रत्ययार्थे सति "सोमं पवमानः" इत्यादौ षष्ठीप्रतिषेधो न स्यात्। न च तृन्निति प्रत्ययस्य ग्रहणम्,
किं तर्हि? प्रत्याहारस्य। तत्र चशानन्नादयोऽन्तर्भूता इति भवत्येव षष्ठीप्रतिषेधः।
"द्विषः शतुर्वा वचनम्" इति। "द्विषोऽमित्रे"
३।२।१३१ इत्यनेन यः {शता"इति मुद्रितः पाठः} शतृ विधीयते तस्य प्रत्याहारेऽस्मिन्नन्तर्भावात् तद्योगे षष्ठीप्रतिषेधः स्यात्, ततश्चौरस्य द्विषन्निति पक्षे न स्यात्। तस्मात् "द्विष अप्रीतौ" (धा।पा।
१०१३) इत्यस्य शत्रन्तस्य प्रयोगे द्वितीयायां प्राप्तायां वा षष्ठी वक्तव्या॥
पूङ्यजोः शानन्। पञ्चम्यर्थे षष्ठी। वर्तमाने इति। शेषपूरणमिदम्। "वर्तमाने ल"डित्यतस्तदनुवृत्तेरिति भावः। लड्ग्रहणं तु निवृत्तम्। ततश्च ण्वुलादिवत्स्वतन्त्रोऽयं , न तु शत्रादिवल्लादेशः। तथा च कर्तर्येवायं, न तु भावकर्मणोः। न च लादेशत्वाऽबावे "सोमं पवमानट इत्यत्र कर्मणि षष्ठी स्यादिति वाच्यं, "न लोके"ति सूत्रे "तृन्" इति प्रत्याहार इत्युक्तत्वात्।
पूङ्यजोः। शाननः शकारः सार्वधातुकत्वार्थः। नकारः स्वरार्थः। ण्वुलादिवत्स्वतन्त्रोऽयं न तु शत्रादिवल्लादेशः, तथाहि सति वेति वाच्यं स्यात्, पवते यजते इति तिङोऽपि यथा स्युरिति। न च वाऽसरूपन्यायेन निर्वाहः,लादेशेषु वाऽसरूपविधिर्नास्तीत्याकरे स्थितत्वात्।किंच लादेशत्वे "लः कर्मणि चे" ति भावकर्मणोर्विहितस्य लस्यापि भावकर्मणोरपि प्रयुज्येत, इष्यते तु कर्तर्येव। एवं चानशः "इङ्घार्यो" रिति शतुश्च स्वातन्त्र्यं बोध्यम्। अत्र केचित्- शाननो लादेशत्वे लसार्वधातुकानुदात्तत्वं स्यादित्याहुः। तच्चिन्त्यम्। परत्वान्नित्स्वरप्रवृत्त्या पवमान इत्यादेराद्युदात्तत्वे शाननोऽनुदात्तत्वस्येष्टत्वात्। नन्वेषां लादेशत्वाऽनङ्गीकारे "सोमं पवमान" इत्यादौ कर्मणि षष्टी स्यादिति चेन्मैवम्। "न लोके" ति सूत्रे तृन्निति प्रत्याहारनिर्देश इत्युक्तत्वात्।