लक्ष्यते चिह्न्यते तल् लक्षणम्। जनको हेतुः। धात्वर्थविशेषणं चैतत्। लक्षणे हेतौ च अर्थे वर्तमनाद धातोः परस्य लटः शतृशानचौ आदेशौ भवतः, तौ चेल् लक्षणहेतू क्रियाविषयौ भवतः। लक्षणे शयाना भुञ्जते यवनाः। तिष्ठन्तो ऽनुशासति गणकाः। हेतौ अर्जयन् वसति। अधीयानो वसति। लषणहेत्वोः इति किम्? पचति, पठति। क्रियायाः इति किम्? द्रव्यगुणयोर् मा भूत्। यः कम्पते सो ऽश्वत्थः। यदुत्प्लवते तल् लघु। यन् निषीदति तद् गुरु। लक्षणहेत्वोः इति निर्देशः पूर्वनिपातव्यभिचारलिङ्गम्।
"धात्वर्थ विशेषणञ्चैतत्" इति। धात्वधिकारात्।
अथोपपदे कस्मान्न भवतः? क्रियाया इति वचनात्। यद्युपपदे स्यातां तदा क्रियाग्रहणमनर्थकं स्यात्। उपपदं हि धातोर्भवति, स च क्रियावचन इत्येन्तरेणापि क्रियाग्रहणं लक्षमहेतू क्रियाविषयौ विज्ञास्येते। तत् क्रियाग्रहणेन धात्वर्थविशेषणत्वे हि तयोः क्वचिद्धात्वर्थो द्रव्यस्य हेतुर्भवति, लक्षणं वा ; क्वचिद्गुणस्य , क्वचित्क्रियायाः। अतो द्रव्यादिनिवृत्त्यर्थं क्रियाग्रहणं युक्तम्; अतः "क्रियायाः" इति वचनम्। "क्रियाविषयौ" इति। क्रियाया इत्येतद्विवरणम्। क्रिया विषयो यथोस्तौ तथोक्तौ। एतेन "क्रियायाः" इति येयं षष्ठी सा सुब्व्यत्ययेन सप्तम्याः स्थाने विहितेति सूचयति। "शयाना भुञ्जते" इति। शीङोऽपवादित्वाच्छपो लुक्, "शीङः सार्वधातुके"
७।४।२१ इति गुणः। अत्र शयनं लक्षणम्, भुजिक्रिया विषयः।तेन हि भुजिक्रिया लक्ष्यते तत्र शीङ वत्र्तते। "तिष्ठन्तोऽनुशासति" इति। तिष्ठतेः पाघ्रादिसूत्रेण
७।३।७८ तिष्ठादेशः। अत्रावस्थानं लक्षणम्, तेनानुशासनक्रिया लक्ष्यते। "अर्जयन् वसति" अत्राध्ययनम्।
"पचति, पठति" इति। नात्र क्रियाया लक्ष्यलक्षणभावो विवक्षितः। "यः कम्पतेसोऽ()आत्थः"इति। अत्र हि कम्पनं लक्षणं भवतीति तेना()आत्थो लक्ष्यते, न तु क्रियाविषयम्,
किं तर्हि? द्रव्यविषयम्; अ()आत्थस्य द्रव्यविषयत्वात्। "यदुत्प्लवते तल्लघु" इति। अत्रोत्प्लवनेनलघुसंज्ञको गुणो लक्ष्यत इति गु विषयं तत्, न तु क्रियाविषयम्। वर्षतीति धावति, हन्तीति पलायत इत्यत्र यद्यपि वर्षणहननाभ्यां धावनपलायनक्रिये लक्ष्येते, तथापि शतृशानचौ न भवतः; "नन्वोर्विभाषा"
३।२।१२१ इत्यतो व्यवस्थितविभाषेत्यनुवत्र्तते; इतिकरणेन हेतुभावस्य द्योतितत्वात्। पूर्वनिपातलक्षमव्यभिचारलिङ्गम्" इति। "द्वन्द्वे घि"
२।२।३२ इत्यनेन ध्यन्तस्य यः पूर्वनिपातः क्रियते तस्य व्यभिचारः। स्वविषये सत्यपि तस्य क्वचिदभावः। तस्य व्यभिचारस्य लिङ्गमयं निर्देशः।यदि ह्रभिचारी ध्यन्तस्य निपातः स्यात्, "हेतुलक्षणयोः"इति निर्देशं कुर्यात्। व्यभिचारे तु सति धूमाग्नी इत्येवमादय उपपन्ना भवन्ति॥
ननु च प्रकृतत्वादेव शतृशानचोरियं संज्ञा स्यात्, त()त्क तौग्रहणमित्याह-- "तौग्रहणम्" इत्यादि। उपाधिना विशेषमेनासंसर्गार्थं तौग्रहणमित्यर्थः। उपाधिस्तु वत्र्तमानकालः, तत्र शतृशानचोर्विहित्वात्। उपाध्यसंगर्हार्थे तौग्रहणे सति किं भवतीत्याह-- "शतृशानज्मात्रस्य" इत्यादि। मात्रग्रहणमुपाधिसंग्रहव्यवच्छेदार्थम्। असति हि तौग्रहणे यादृशौ प्रकृतौ तादृशयोरव संज्ञा स्यात्।
कीदृशौ च तौ? वत्र्तमानकलाविहितौ। ततश्च लृडादेशयोर्भविष्यत्कालविहितयोः सदिति संज्ञा न स्यात्। ननु च "लुटः सद्वा"
३।३।१४ इति सच्छब्देन तौ विधीयेते,
ततो वचनसामथ्र्यात् तु भविष्यतः? न ब्राऊमः-- विधानं तयोर्न सिध्यतीति,
किं तर्हि? विहितयोरुत्तरकालसंज्ञा न सिध्यति। ततश्च ब्राआहृणस्य करिष्यन्, ब्राआहृणस्य करिष्यमाण इत्यत्र "पूरणगुण"
२।२।११ इत्यादिना षष्ठीसमासप्रतिषेधो न स्यात्। सद्()ग्रहणं तु सच्छब्देनैव वत्र्तमानशतृशानजन्ते षष्ठीसमासप्रतिषेधार्थं स्यात्। तौग्रहणे शतृशानचोर्विशेषणमनपेक्ष्य रूपमात्रे संज्ञाऽऽख्यायत इति वत्र्तमानकाले विधानासंसक्तयोरपि संज्ञा सिध्यतीति॥