ऊन परिहाणे, ध्वन शब्दे, इल प्रेरणे, अर्द गतौ याचने च, एतेभ्यो धातुभ्यः ण्यन्तेभ्यः पूर्वेण च्लेश्चङि प्राप्ते छन्दसि विषये न भवति। काममूनयीः। औनिनः इति भाषायाम्। मा त्वाग्निर्धवनयीत्। अदिध्वनतिति भषायाम्। काममिलयीत्। ऐलिलतिति भाषायाम्। मैनमर्दयीत्। आर्दिदतिति भाशायाम्।
"एभ्यो ण्यन्तेभ्यः" इति। ऊनयत्येलयतिभ्यां चुरादिण्यन्ताभ्यम्। "पूर्वेण" इति। "श्रिणि"
इत्यादिना। "औनयीत्" इति। तिप्, सिच्, "इट ईटि"
८।२।२८ इति सिचो लोपः, तस्यासिद्धत्वाद्वृद्धौ प्राप्तायां "ह्म्यन्तलक्षण"
७।२।५ इति प्रतिषेधः, गुणायादेशौ, "आडजादीनाम्"
६।४।७२ इत्याट्, "आटश्च"
६।१।८७ इति वृद्धिः। "औनिनत्" इति। "अजादेर्द्वितीयस्य"
६।१।२ इति द्विर्वचनम्। णिलोपः। "ध्वनयीत्" इति। ध्वनयीदित्यतदेव निपातनाददन्तत्वम्, "अतो लोपः"
६।४।४८, तस्य स्थानिवद्भावात् "अत उपाधायाः"
७।२।११६ इति वृद्धिर्न भवति। "बहुलं छन्दत्यमाङ्योगेऽपि"
६।४।७५ इत्यड्निषेधः। "अदिध्वनत्" इति। सन्वद्भावादित्त्वम्। "ऐलिलत्" इति। "अजादेर्द्वितीयस्य"
६।१।२ इति लिशब्दस्य द्विर्वचनम्, पूर्ववदाट्। "आर्दिदत्" इति। इहापि द्वितीयस्यैकाचो द्वर्वचनं पूर्ववत्। रेफस्तु न द्विरुच्यते; " न न्द्राः संयोगादयः"
६।१।३ इति प्रतिषेधात्। आट्, वृद्धिः॥