इजादिर् यो धातुर् गुरुमानृच्छतिवर्जितः, तस्माच् च लिटि परत आम् प्रत्ययो भवति। ईह चेष्टायाम्। ऊह वितर्के। ईहाञ्चक्रे। ऊहाञ्चक्रे। इजादेः इति किम्? ततक्ष। ररक्ष। गुरुमतः इति किम्? इयज। उवप। अनृच्छः इति किम्? आनर्च्छ, आनर्च्छतुः, आनर्च्छौः। ऊर्णोतेश्च प्रतिषेधो वक्तव्यः। प्रोर्णुनाव। अथ वा वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्। आमश्च प्रतिषेधार्थम् एकाचश्चेडुपग्रहात्।
"{यजादेः इति मुद्रितः पाठः।} इजादेः" इति। आदिर्यस्येति बहुव्रीहिः। "इच्" इति प्रत्याहारग्रहणम्। गुरुरस्यास्तीति गुरुमान्। "ऋच्छतिवर्जितः" ऋच्छिना त्यक्तः। तद्रूपरहित इत्यर्थः। "ईहाचञ्क्रे" इति। "ईह चेष्टायाम्" (धा।पा।६३२) "ऊहाञ्चक्रे" इति। "ऊह वितर्के" (धा।पा।६४८)।
"ततक्ष, ररक्ष" इति। "तक्षू त्वक्षू तनूकरणे" (धा।पा।६५५, ६५६), "रक्ष पालने" (धा।पा।६५८)। "इयज; उवप" इति। यजिवप्योरुत्तमे णलि "णलुत्तमो वा"
७।१।९१ इति णित्त्वाभावपक्षे वृद्ध्यभावाद्गुरुमत्ताभावः। केचित् इयेष, उवोषेति प्रत्युदाहरन्ति। "{इष धा।पा।} इषु इच्छायाम्" (धा।पा।१३५१) "उष दाहे" (धा।पा।६९६), णलि लघूपधगुणःष द्विर्वचनम्, "अभ्यासस्यासवर्णे"
६।४।७८ इतीयङुवङौ।
ननु च गुणे कृत एतावपि गुरुमन्तो भवत इति भवितव्यमेवामात्र? न भवितव्यम्; "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" (व्या।प।१२) इति लिट्सन्निपातो गुरुमत्ताया हेतुः। गुरुमत्ता च "आमः"
२।४।८१ इति लिटमेव विहन्ति। अथ वा-- गुरुमत इति नित्ययोगे मतुप्, तेन नित्यं यस्य गुरुमा योगस्ततो भवितव्यम्, न चेषेरुषेश्च नित्यं गुरुणा सह योगः। यद्येवम्, "उछी विवासे" (धा।पा।
२१६) -- उच्छाञ्चकारेत्यत्र तुकि कृते न प्राप्नोति? नैष दोषः; ऋच्छिप्रतिषेधो हि ज्ञापयति-- आगमनिमित्ता गुरुमत्ता यस्य ततोऽपि भवतीति।
"आनच्र्छ" इति। "ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु" (धा।पा।१२९६), "छे च"
६।१।७१ इति तुक्, "ऋच्छत्यृ()ताम्"
७।४।११ इतिगुणः, द्विर्वचनम्, हलादिशेषः, "अत आदेः"
७।४।७० इति दीर्घः, "तस्मान्नुड् द्विहलः"
७।४।७१ इति नुट्। ननु च "ऋच्छत्यृ()ताम्"
७।४।११ इति ऋच्छतेरनन्तरे लिटि गुणवचनं ज्ञापकम्-- ऋच्छेराम् न भवति। सति हि तस्मिन्नागमनिमित्ता गुरुमत्ता यस्य ततोऽपि भवतीत्येतज्ज्ञापितं न स्यात्। तस्मादनृच्छ इति प्रतिषेधः कत्र्तव्यः।
"ऊर्णोतेः" इत्यादि। इजादित्वाद्गुरुमत्त्वाच्च प्राप्नोत्याम्।
तस्मात् प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। व्याख्यानं तु-- वक्ष्यमाणस्यान्यतरस्यांग्रहणस्य सिंहावलोकितन्यायेनानुवर्त्तितस्य व्यवस्थितविभाषात्वविज्ञानात् कत्र्तव्यम्। "प्रोर्णुनाव" इति। "अजादेर्द्वितीयस्य"
६।१।२ इति "नु"इत्यस्य द्विर्वचनम्। रेफस्तु न द्विरुच्यते; "न न्द्राः संयोगादयः"
६।१।३ इति प्रतिषेधात्।
"अथ वा" इत्यादि। "णु स्तुतौ" (धा।पा।१-३५)। "तेन तुल्यं वत्र्तते" इति नुपवत्, तस्य भावो नुवद्भाव इति। नौतिना तुल्यं वत्र्तत इत्यर्थः। किं पुनस्तस्य प्रयोजनम्,
येनासौ तथा वाच्यः? इत्याह--- "यङप्रसिद्धिः प्रयोजनम्" इति। नुवद्भावे सति यथा नौतेः "धातोरेकाचः"
३।१।२२ इतियङ भवति नोनूयत इति, एवमूर्णोतेरपि- प्रोर्णोनूयत इति। "आमश्च प्रतिषेधार्थम्" इति नुवद्भावो वाच्य इत्यपेक्षते। तस्मिन् सति यथा नौतेरनिजादित्वाद्गुमत्ताभावाच्चाम् न भवति, तथोर्णोतेरपि-- प्रोर्णुनावेति। "एकाचश्चेडुपग्रहात्" इति। "नुवद्भावो वाच्यः" इति सम्बध्यते। कर्मणि "ल्यब्लोपे" (वा।१२७) इति पञ्चमी, यथा-- प्रासादात् प्रेक्षते, आसनात् प्रेक्षत इति। इडुपग्रह इति इट्प्रतिषेधः। एतदुक्तं भवति-- एकाचः"
७।२।१० इत्यनुवत्र्तमाने "श्रयुकः किति"
७।२।११ इति य इडुपघः क्रियते तदुद्दिश्य प्रयोजनमूर्णोतेर्नुवद्भावो वाच्य इति। तेन यथा नौतेः "श्रयुकः किति" इतीट्प्रतिषेधः-नुतः, नुतवानिति, तथोर्णोतेरपि-- प्रोर्णुतः, प्रोर्णुतवानिति।
अथ वा-- इडुपग्रहादिति हेतावियं पञ्चमी, यथा-- "तदशिष्यं संज्ञाप्रमाणत्वात्"
१।२।५३ इति। एकाचो यत इडुपग्रहो विधीयते तस्मात् प्रयोजनाद्धेतोरूर्णोतेर्नुवद्भावो वाच्य इत्यर्थः।
अथ "इजादेश्च" इति किमर्थश्चकारः? अनुक्तसमुच्चयार्थः , तेन "कास्यनेकाचः" (वा।
२०५) इति वक्तव्यं न भवति। यथान्यासेऽपि चकारेण चकासाञ्चकारेत्यादेः सिद्धत्वात्। ननु च यदीदं नोच्येत,
तदा प्रत्ययान्तोऽपि यो धातुरेकाच् ततोऽपि प्रसज्येत्? यदि नेष्यते, तदा वक्ष्यमाणमन्तयतरस्यांगर्हणमनुवत्र्यं व्यवस्थितविभाषात्वमङ्गीकत्र्तव्यम्॥