उत्तमो णल् वा णित् भवति। णित्कार्यं तत्र वा भवति इत्यर्थः। अहं चकर, अहं चकार। अहं पपच, अहं पपाच।
उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥
"णित्कार्यं वा भवतोत्यर्थः" इति। अनेन णित्कार्यस्य पक्षेऽबावाण्णिद्वा भवतीत्युच्यते, न तु णित्त्वस्यैव प्रतिषेध इति दर्शयति। न तु णल उपदेशावस्थायां सिद्धं णित्त्वं तद्वचनशतेनापि शक्यं तिषेद्धुमिति भावः। "चकार, चकर" इति। यदा णित्त्वं तदा "अचो ञ्णिति"
७।२।११५ इति वृद्धिः, अन्यदार्धधातुकलक्षणो गुणः। "पपाच, पपच" इति। यदा णित्त्वं तदा "अकत उपधायाः"
७।२।११६ इति वृद्धिः, अन्यदा तदभावः॥