पूर्वम्: ८।१।६०
अनन्तरम्: ८।१।६२
 
सूत्रम्
अहेति विनियोगे च॥ ८।१।६१
काशिका-वृत्तिः
अह इति विनियोगे च ८।१।६१

अह इत्यनेन युक्ता प्रथमा तिङ्विभ्क्तिर् नानुदात्ता भवति विनियोगे गम्यमाने, चशब्दाद् क्षियायां च। नानाप्रयोजनो नियोगो विनियोगः। त्वमह ग्रामं गच्छ। त्वमह अरण्यं गच्छ। क्षियायाम् स्वयमह रथेन याति ३, उपाध्यायं पदातिं गमयति। स्वयमह ओदनं भुङ्क्ते ३, उपाध्यायं सक्तून् पाययति। पूर्ववन्निघातप्रतिषेधः, प्लुतश्च।
न्यासः
अहेति विनियोगे च। , ८।१।६१

चकारेण क्षियायामित्येतदनुकृष्यते। "नानाप्रयोजनः" इति। अनेकप्रयोजन इत्यर्थः। "नियोगः" इति। प्रेषणम्(), व्यापारणमित्यर्थः। इतिकरणमस्य पूर्ववदेव प्रयोजनम्()॥