पूर्वम्: ८।१।६१
अनन्तरम्: ८।१।६३
 
सूत्रम्
चाहलोप एवेत्यवधारणम्॥ ८।१।६२
काशिका-वृत्तिः
चाहलोप एव इत्यवधारणम् ८।१।६२

चलोपे अहलोपे प्रथमा तिङ्विभक्तिः नानुदात्ता भवति। एव इति एतच् चेदवधारणार्थं प्रयुज्यते, क्व च अस्य लोपः? यत्र गम्यते चार्थः, न च प्रयुज्यते, तत्र लोपः। तत्र चशब्दः समुच्चयार्थः, आहशब्दः केवलार्थः इति समानकर्तृके चलोपः, नानाकर्तृके अहलोपः। चलोपे देवदत्त एव ग्रामं गच्छतु, स देवदत्त एवारण्यं गच्छतु। ग्रामं चारण्यं च गच्छतु इत्यर्थः। अहलोपे देवदत्त एव ग्रामं गच्छतु, यज्ञदत्त एवारण्यम् गच्छतु। ग्रामं केवलम्, अरण्यं देवलम् इत्यर्थः। अवधारणम् इति किम्? देवदत्तः क्वेव भोक्ष्यते। अनवक्लृप्तावयम् एवशब्दः। न क्व चिद् भोक्ष्यते इत्यर्थः। एवे चानियोगे इति पररूपम्।
न्यासः
चाहलोप एवेत्यवधारणम्?। , ८।१।६२

"क्व चास्य लोपः" इति। "लोपे विभाषा" ८।१।४५ इत्यत्र योऽभिप्राय प्रष्टुरुक्तः स इहापि वेदितव्यः। "यत्रार्थो गम्यते" इत्यादि। अत्रापि यस्तत्राभिप्राय इतरस्याभिहितः स एव द्रष्टव्यः। कः पुनरर्थस्तयोः प्रयुक्तयोरपि गम्यते? इत्याह--"तत्र" इत्यादि। क्य पुनर्दिषये चलोपः? क्व वाहलोपः? इत्याह--"समानकर्त्तृके" इत्यादि। यस्मिन्? व्यापारविशेषे समास एकः कत्र्ता स समानकत्र्तकः। "समानकर्त्तृके चलोपः, नानकर्त्तृकेऽहलोपः" इति। नाना कत्र्ता यस्मिन्? स नानाकर्त्तुकः। "देवदत्त एव ग्रामं गच्छतु, स देवदत्त एवारण्यं गच्छतु" इति। अत्र ग्रामकर्मकमरण्यकर्मकञ्च गमनं यत्? तस्य देवदत्त एव कत्र्तति तत्? समानकर्तृकम्()। चार्थं च दर्शयितुमाह--"ग्रामं च" इत्यादि। अत्र हि देवदत्त एवारण्यं गच्छतु देवदत्त एव ग्रामं गच्छत्विति देवदत्तस्यैव नियोज्यस्य गन्तुग्र्राम एव गन्तव्यतयोपदिश्यते, यज्ञदत्तस्य त्वरण्यमेव केवलम्()। तेनासत्यप्यहशब्दस्य प्रयोगे तदर्थो गम्यते--ग्रामं केवलं देवदत्तो गच्छतु, अरण्यं केवलं यज्ञदत्तो गच्छत्विति। "अनवक्लृप्तौ" इति। असम्भावनायामित्यर्थः। यो हि देवदत्तस्य भोजनं न क्वचित्सम्भावयति स एव प्रयुङक्ते--देवदत्त तदेव भोक्ष्यसे" इति। पररूपत्वम्()॥