पूर्वम्: ८।१।५९
अनन्तरम्: ८।१।६१
 
सूत्रम्
हेति क्षियायाम्॥ ८।१।६०
काशिका-वृत्तिः
हेति क्षियायाम् ८।१।६०

ह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिः नानुदात्ता भवति क्षियायां गम्यमानायाम्। क्षिया धर्मव्यतिक्रमः, आचारभेदः। स्वयं ह रथेन याति ३, उपाध्यायं पदातिं गमयति। स्वयं ह ओदनं भुङ्क्ते ३, उपाध्यायं सक्तून् पाययति। प्रथमस्य तिङन्तस्य अत्र निघातः प्रतिषिध्यते। क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् ८।२।१०४ इति च प्लुतो भवति।
न्यासः
हेति क्षियायाम्?। , ८।१।६०

"आचारभेदः" इति। शिष्टाचारव्यतिक्रम इत्यर्थः। "याति" इति। धातुस्वरेणाद्युदात्तः। इतिकरणेन हशब्दमात्रलस्य निघातकारणत्वमाख्यायते। असति हि तस्मिन्? क्षिया हशब्दस्योपाधिर्विज्ञायेत तिङन्तस्य वा। तथा च यदा हशब्दस्तिङन्तं वा क्षियायां न प्रयुज्यते, तदा निघातप्रतिषेधो न स्यात्()। इतिकरणे तु सति स्वरूपमात्रप्रधानो हशब्दो निघातस्य कारण भवतीति असत्यामपि हशब्दस्य तिङन्तस्य वा क्षियायां वृत्तौ निघातप्रतिषेधः सिद्धो भवति॥