पूर्वम्: ८।१।४२
अनन्तरम्: ८।१।४४
 
सूत्रम्
नन्वित्यनुज्ञैषणायाम्॥ ८।१।४३
काशिका-वृत्तिः
नन्वित्यनुज्ञाएषणायाम् ८।१।४३

ननु इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति। अनुज्ञैषणायां विषये। अनुज्ञाया एषणा प्रार्थना अनुज्ञैषणा। अनुज्ञाप्रार्थना इत्यर्थः। ननु करोमि भोः। अनुजानीष्व मां करणं प्रति इत्यर्थः। अनुज्ञैषणायाम् इति किम्? अकार्षीः कटं देवदत्त? ननु करोमि भोः। पृष्टप्रतिवचनम् एतत्, न अनुज्ञैषणा।
न्यासः
नन्वित्यनुज्ञैषणायाम्?। , ८।१।४३

"अनुज्ञाया एतणा प्रार्थना" इति। किञित्? कर्तु स्वयमेवोद्यतस्यैवं क्रियतामित्यनुज्ञानमनुज्ञा। प्रार्थनायां मूलोदाहरणयोः "वत्र्तमाने लट्()" ३।३।१२३ इति लट्()। प्रत्युदाहरणे तु भूते "ननौ पृष्टप्रतिवचने" ३।२।१२० इत्यनेन। इतिकरण एकनिपातोऽयमिति प्रदर्शनार्थः। नन्वनुज्ञेषणायामिति ह्रुच्यमाने सन्देहः स्यात्()--किमयमेकनिपातः? उत्त निपातद्वयमिति? यथा--"नन्वोर्विभाषा" ३।२।१२१ इत्यत्रः इतिकरणेन त्ववच्छिद्यमानमेकमेवेवं शब्दरूपमिति गम्यते॥