पूर्वम्: ८।१।४३
अनन्तरम्: ८।१।४५
 
सूत्रम्
किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्॥ ८।१।४४
काशिका-वृत्तिः
किं क्रियाप्रश्ने ऽनुपसर्गम् अप्रतिषिद्धम् ८।१।४४

किम् इत्येतत् क्रियाप्रश्ने यदा वर्तते तदानेन युक्तं तिङन्तं अनुपसर्गम् अप्रतिषिद्धं नानुदात्तं भवति। किं देवदत्तः पचति, आहोस्विद् भुङ्क्ते। किं देवदत्तः शेते, आहोस्विदधीते। अत्र केचिदाहुः, पूर्वं किंयुक्तम् इति तन् न निहन्यते, उत्तरं तु न किंयुक्तम् इति तन्निहन्यत एव इति। अपरे त्वाहुः, यद्यप्येकस्य आख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योगः इति उभयत्र प्रतिषेधेन भवितव्यम् इति। क्रियाग्रहणं किम्? साधनप्रश्ने मा भूत्, किं देवदत्तः ओदनं पचति, आहोस्विच्छाकम् इति। प्रश्न इति किम्? किम् अधीते देवदत्तः। क्षेपे किंशब्दो ऽयम्, न प्रश्ने। अनुपसर्गम् इति किम्? किं देवदत्तः प्रपचति, आहोस्वित् प्रकरोति। अप्रतिषिद्धम् इति किम्? किं देवदत्तो न पठति, आहोस्विन् न करोति।
न्यासः
किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषषिद्धम्?। , ८।१।४४

"अप्रतिषिद्धम्()" इति। प्रतिषेधः प्रतिषिद्धम्()। भावे निष्ठा। नास्य प्रतिषिद्धमस्तीत्यप्रतिषिद्धम्()। अथ वा--कर्मणि निष्ठा, निविद्धं प्रतिषिद्धमप्रतिषिद्धम्()। अर्थद्वारकञ्चैतत्? तिङो विशेषणम्()। "पूर्वं किंयुक्तम्()" इति। तत्समीपे किमः श्रूयमाणत्वादित्यभिप्रायः। "उत्तरं तु न किंयुक्तम्()" इति। तस्यासमीपे श्रूयमाणत्वादिति भावः। "अपरे त्वाहुः" इत्यादि। न हि समीपे श्रुयमाणत्वं किंशब्दस्य शब्दान्तरेण सम्बन्धे हेतुः अपि तु संशयविषयत्वम्()। यथा चात्र पूर्वस्याख्यातस्य, तथा तत्परस्यापीत्यस्ति तस्य योगः किंशब्देनेत्युभयत्र प्रतिषेधः॥