पूर्वम्: ८।१।४१
अनन्तरम्: ८।१।४३
 
सूत्रम्
पुरा च परीप्सायाम्॥ ८।१।४२
काशिका-वृत्तिः
पुरा च परीप्सायाम् ८।१।४२

पुरा इत्यनेन युक्तं तिङन्तं परीप्सायाम् अर्थे विभाषा नानुदात्तं भवति। परीप्सा त्वरा। अधीष्व मानवक, पुरा विद्योतते विद्युत्। पुरा स्तनयति स्तनयित्नुः। पुराशब्दो ऽत्र भविष्यदासत्तिं द्योतयति। पैइप्सायाम् इति किम्? नडेन स्म पुरा अधीयते। अत्र भूतकालविप्रकर्षं पुराशब्दो द्योतयति। ऊर्णया स्म पुरा अधीयते।
न्यासः
पुरा च परीप्सायाम्?। , ८।१।४२

चकारो विभाषेत्यनुकर्षणार्थः। "परीप्सायामर्थे" इति। गम्यमान इति शेषः। "परीप्सा त्वरा" इति। सम्भ्रमः=अशुप्रवृत्तिरित्यर्थः। "अधीष्व माणवक" इत्यादि। त्वरितमधीष्वेत्येधोऽर्थो गम्यते। तथा ह्रत्र पुरा विद्योतते विद्युत्(), पुरा स्तनयति स्तनियुरितत्येतदुभयमप्यध्ययनदिषययोस्त्वरायाः कारणत्वेनोपातम्()। विद्युद्द्योतनादौ हि न पठितव्यं पर्वदिवसेष्विव। एतदुक्तं भवति--यस्मादचिरकालभावि विद्युद्द्योतनं स्तनयित्नुस्तननं वाऽध्ययनन्तरायोऽतोऽधीष्येति। "पुरा विधीयते" इति। "यावत्पुरानिपातयोर्लट्(), ३।३।४, अनुदात्तेत्त्वादात्मनेपदम्()। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे ६।१।१८० कृते धातुस्वरेणाद्युदात्तमेतत्()। "पुरा स्तनयति" इति। "स्तन गदी देवशब्दे" (धा।पा।१८५९,१८६०) चुरादिणिच्()। अदन्तत्वाद्बृद्ध्यभावुः। एतदपि पूर्ववन्मध्योदात्तम्()। "पुराशब्दोऽत्र भविष्यदासतिं()त द्योतयति" इति। भविष्यद्विद्युद्द्योतनादिरध्ययनान्तरायो यस्तस्य प्रत्यासतिं()त सामीप्यर्माचरकालभादित्वं द्योतयति। तेन त्वरा गम्यत इत्यभिप्रायः॥