पूर्वम्: ८।१।३८
अनन्तरम्: ८।१।४०
 
सूत्रम्
तुपश्यपश्यताहैः पूजायाम्॥ ८।१।३९
काशिका-वृत्तिः
तुपश्यपश्यताहैः पूजायाम् ८।१।३९

तु पश्य पश्यत अह इत्येतैर् युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। तु माणवकस्तु भुङ्क्ते शोभनम्। पश्य पश्य माणवको भुङ्क्ते शोभनम्। पश्यत पश्यत माणवको भुङ्क्ते शोभनम्। अह अह माणवको भुङ्क्ते शोभनम्। पूजायाम् इति किम्? पश्य मृगो धावति। पूजायाम् इति वर्तमाने पुनः पूजायाम् इत्युच्यते निघातप्रतिषेधार्थम्। तद् धि प्रतिषेधस्य प्रतिषेधेन सम्बद्धम् इति।
न्यासः
तुपश्यपश्यताहैः पूजायाम्?। , ८।१।३९

ननु "पूजायां नानन्तरम्()" ८।१।३७ इति पूजाग्रहणमनुवत्र्तत एव, तत्किमर्थं पूजायामित्युच्यते? इत्याह--"पूजायामित्यनुवत्र्तते" इत्यादि। स्यादेतत्()--तदेव पूजाग्रहणमिहानुवत्र्तमानं निघातप्रतिषेधार्थं भविष्यतीति? अताअह--"तद्धि" इत्यादि। तद्धि पूर्वत्र पूजाग्रहणं निघातप्रहतिषेधस्य प्रतिषेधेन सम्बद्धम्()। तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्()। एवञ्च तेषां निघातप्रतिषेधः। लुडादीनां तेषां तुप्रभृतिभिर्योगे निघातप्रतिषेधस्य प्रतिषेधो विज्ञायेत। तस्मान्निघातस्य प्रतिषेधो यथा स्यादित्येवमर्थं पुनः पूजाग्रहणम्()। अत्राहग्रहयणं किमर्थम्(), चनादिषु (८।१।५७) चेत्येव सिद्धम्()? न सिध्यति; "चनचिदिवगोत्रादितद्धिताम्रेडितेवष्गतेः" ८।१।५७ इत्यतो गतेरिति तत्रानुवृत्तेः। तथा च-देवदत्तः प्रपचत्यहेत्यत्र प्रतिषेधो न स्यात्()। परभूतेषु वा स प्रतिषेध इति पूर्वभूतेऽबशब्दे च न स्यात्()--देवदत्तोऽह पचतीति#ई॥