पूर्वम्: ८।१।३७
अनन्तरम्: ८।१।३९
 
सूत्रम्
उपसर्गव्यपेतं च॥ ८।१।३८
काशिका-वृत्तिः
उपसर्गव्यपेतं च ८।१।३८

यावद्यथाभ्यां युक्तं उपसर्गव्यपेतं च पूजायां विषये नानुदात्तं न भवति, किं तर्हि? अनुदात्तम् एव भवति। पूर्वम् अनन्तरं इत्युक्तम्, उपसर्गव्यवधानार्थो ऽयम् आरम्भः। यावत् प्रपचति शोभनम्। यथा प्रपचतिशोभनम्। यावत् प्रकरोति चारु। यथा प्रकरोति चारु। अनन्तरम् इत्येव, आवद् देवदत्तः प्रपचति। यथा विष्णुमित्रः प्रकरोति चारु।
न्यासः
उपसर्गव्यपेतञ्च। , ८।१।३८

"उपसर्गव्यपेतम्()" इति। उपसर्गव्यवहितम्()। चकारेण "पूजायाम्()" इत्यनुकृष्यते; अनन्तरमिति चानुवत्र्तते। तत्रोपसर्गेण व्यवधानमाश्रीयत इति। सामथ्र्यात्? अनन्तरग्रहणं शब्दान्तरव्यवधाननिरासार्थं विज्ञायते॥