पूर्वम्: ७।३।६७
अनन्तरम्: ७।३।६९
 
सूत्रम्
प्रयोज्यनियोज्यौ शक्यार्थे॥ ७।३।६८
काशिका-वृत्तिः
प्रयोज्यनियोज्यौ शक्यार्थे ७।३।६८

प्रयोज्य नियोज्य इत्येतौ शब्दौ शक्यार्थे निपात्येते। शक्यः प्रयोक्तुम् प्रयोज्यः। शक्यो नियोक्तुम् नियोज्यः। शक्यार्थे इति किम्? प्रयोग्यः। नियोग्यः।
न्यासः
प्रयोज्यनियोज्यौ शक्यार्थो। , ७।३।६८

प्रपूर्वस्य निपूर्वस्य च "युजिर्? योगे" (धा।पा।१४४४) इत्यसय ष्यति कुत्वाभावो निपात्यते, स चेण्ण्यच्छक्यार्थे भवति। शक्यार्थे पुनण्र्यत् "शकि लिङ्? च" ३।३।१७२ इत्यनेन वेदितव्यः। तत्र हि "कृत्याश्च" ३।३।१७१ इत्यनुवत्र्तते। अथ किमर्थं पुनर्निपातनम्(), यावता "ण्ये" ७।३।६५ इत्यनुवत्र्तत एव? तत्र "प्रयुजनियुजोः शक्यर्थे" इति वक्तव्ये निपातनं रूढ()र्थम्()। अगुणभूता यत्र शक्यार्थता तत्र यथा स्यात्()--प्रयोज्यो भृत्यः, नियोज्यो दास इति। स्वमिनि प्रयोज्यो नियोज्य इति न भवति। न हि तत्र प्रयोज्यनियोज्यशब्दौ रूढौ, किं तर्हि? गुणभूतादेव॥
बाल-मनोरमा
प्रयोज्यनियोज्यौ शक्यार्थे ७०१, ७।३।६८

प्रयोज्यनियोज्यौ। शक्यार्थे ण्ये क्वुत्वाऽभावो निपात्यते। "शकि लिङ् चे"ति कृत्यानां शक्यार्थेऽपि विहितत्वाण्ण्यदन्तस्य शक्यार्थकत्वमपि।