पूर्वम्: ७।३।६८
अनन्तरम्: ७।३।७०
 
सूत्रम्
भोज्यं भक्ष्ये॥ ७।३।६९
काशिका-वृत्तिः
भोज्यं भक्ष्ये ७।३।६९

भोज्यम् निपात्यते भक्ष्ये ऽभिधेये। भोज्यः ओदनः। भोज्या यवागूः। इह भक्ष्यम् अभ्यवहार्यमात्रम्। भक्ष्ये इति किम्? भोग्यः कम्बलः।
न्यासः
भोज्यं भक्ष्ये। , ७।३।६९

"भोज्यम्()" इति। "भुज पालनाभ्यवहारयोः" (धा।पा।१४५४) इत्यस्य ण्यति भक्ष्येऽभिधेये कुत्वाभावो निपात्यते। "भोज्या यवागूः" इति। ननु च भक्षिरयं खरविशदेऽभ्यवहार्ये वत्र्तते, न तु द्रवद्रव्ये, यथा--"संस्कृतं भक्षाः" ४।२।१५ इत्यत्र, तत्कथं "भक्ष्ये" इत्युच्यमाने यवाग्वां भवति? इत्याह--"इह भक्ष्यम्()" इत्यादि। नावश्यं भक्षिः खरविरादे वत्र्तते। तथा हि--द्रवद्रव्येऽप्यस्य प्रयोगो द्रृश्यते। यथा--अबभक्षः, वायुभक्षः, वायुभक्ष इति। तस्मादभ्यवहार्यसामान्ये भक्षिर्वर्तत इति यवाग्वामपि भवति। "भुजो भक्ष्ये" इति वक्तव्ये निपातनं रूढ()र्थम्() अभ्यवहार्ये भक्ष्ये कर्मणि यथा स्यात्? परिपालनीये मा भूत्()--भोग्या अपूपाः। पालनीया इत्यर्थः॥
बाल-मनोरमा
भोज्यं भक्ष्ये ७०२, ७।३।६९

भोज्यं भक्ष्ये। भक्ष्ये गम्ये ण्ये भुजेः कुत्वाऽभावो निपात्यते। इति प्रासङ्गिकम्। अथ प्रकृतम्-- लपिदभिभ्यां चेति। वार्तिकमिदम् "ऋहलोण्र्य"दिति सूत्रस्थम्। "पोरदुपधा" दिति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः।

तत्त्व-बोधिनी
भोज्यं भक्ष्ये ५८३, ७।३।६९

भोज्यम्। भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं, नतु खरविशदमभ्यवहार्यम्।तेन भोज्या यवागूरित्यपि भवतीत्याहुः। भोग्यमन्यदिति। पालनीयमुपभोग्यं चेत्यर्थः।

* लपिदभिभ्यां चेति वक्तव्यम्। लपिदभिभ्यां चेति। "पोरदुपधा" दिति प्राप्तस्य यतोऽपवादः। जयादित्यस्तु-- "आसुयुवपरिपी"ति सूत्रे लपं प्रक्षिप्य "रपिलपित्रपी"ति पठित्वाऽनुक्तसमुच्चयार्थेन चकारेण दभेः सङ्ग्रह इत्युक्तवान्,तत्र वैषम्येण व्याख्यानं निर्बीजं, भाष्यविरोधश्च स्पष्ट एवेति बोध्यम्। स्वीकार्य इति। "कास्यनेकाच आम्वक्तव्यश्चुलुम्पाद्यर्थ"मिति वार्तिकबलाद्यथा चुलुम्पादिभ्य आम् स्वीक्रियते तद्वदिति भावः। तथा च प्रयुज्यते "नता नशन्ति न दभाति तस्करः" , "विष्णुर्गोपा अदाभ्यः" इत्यादि।