पूर्वम्: ७।३।६६
अनन्तरम्: ७।३।६८
 
सूत्रम्
वचोऽशब्दसंज्ञायाम्॥ ७।३।६७
काशिका-वृत्तिः
वचो ऽशब्दसंज्ञायां ७।३।६७

वचो ऽशब्दसंज्ञायां ण्यति परतः कुत्वं न भवति। वाच्यमाह। अवाच्यमाह। अशब्दसंज्ञायाम् इति किम्? अवघुषितं वाक्यमाह।
न्यासः
वचोऽशब्दसंज्ञायाम्?। , ७।३।६७

बाल-मनोरमा
वचोऽशब्दसंज्ञायाम् ७००, ७।३।६७

वचोऽशब्दसंज्ञायाम्। वचधातोण्र्ये कुत्वं न, शब्दसंज्ञां वर्जयित्वेत्यर्थः। वाच्यमिति। "वस्त्वि"ति शेषः। "अशब्दसंज्ञाया"मित्यस्य प्रयोजनमाह-- शब्दाख्यायां तु वाक्यमिति। "एकतिङ् वाक्य"मिति संज्ञाशब्दोऽयमिति भावः। "प्रवाच्य"मित्यत्र तु ग्रन्थविशेषसंज्ञात्वेऽपि नायं कुत्वनिषेधस्य निषेधः, "यजयाचे"त्यत्र प्रवचेति विशिष्योपादनात्, असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात्। एतदभिप्रायेणैव "प्रवाच्यं ग्रन्थविशेष" इत्युक्तं प्राक्।

तत्त्व-बोधिनी
वचोऽशब्दसंज्ञायाम् ५८२, ७।३।६७

वाक्यमिति। "तिङ्सुबन्तचयो वाक्यम्"। भोज्यम्। भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं, न तुखरविशदमभ्यवहार्थम्। तेन भोज्या यवागूरित्यपि भवतीत्याहुः।