पूर्वम्: ७।३।२८
अनन्तरम्: ७।३।३०
 
सूत्रम्
तत्प्रत्ययस्य च॥ ७।३।२९
काशिका-वृत्तिः
तत्प्रत्ययस्य च ७।३।२९

ढक्प्रययान्तस्य प्रवाहणशब्दस्य तद्धितेषु परतः उत्तरपदस्य अचामादेरचः वृद्धिर् भवति, पूर्वस्य तु वा। प्रवाहणेयस्य अपत्यम् प्रावाहणेयिः, प्रवाहणेयिः। प्रावाहणेयकम्, प्रवाहणेयकम्। बाह्यतद्धितनिमित्ता वृद्धिः ढाश्रयेण विकल्पेन बाधितुम् अशक्या इति सूत्रारम्भः।
न्यासः
तत्प्रत्ययस्य च। , ७।३।२९

"प्रावाहणेयिः" इति। "अत इञ्()" ४।१।९५। "प्रावाहणेयकम्()" इति। "गोत्रचरणादषुञ्()" ४।३।१२६। अथ किमर्थमिदमुच्यते, यावता ढप्रत्ययन्तस्य प्रवाहणेयशब्दस्योत्तरपदं नित्यं वृद्धिमदेदेति, तदर्थस्तावदारम्भो न युक्तः; पूर्वपदस्य वृद्धेर्विकल्पो यथा स्यादित्येवमर्थोऽपि नैवास्यारम्भो युज्यते; इञादावपि तद्धिते तन्निमित्तां वृदिं()ध बाधित्वा पूर्वसूत्रेण च निमित्त एव विकल्पो भविष्यति, न हीञादावुतपन्ने तद्धिते ढस्य परत्वमपैति? इत्याह--"बाह्रतद्धित" इत्यादि। बाह्रतद्धिनो निमित्तं यस्याः सा तथोक्ता। बाहृत्वं पुनरित्रदेस्तद्धितस्य प्रावाहणेयशब्देऽनन्तर्भावात्()। सैवं बाह्रं तद्धितं निमित्तमाश्रित्य भवन्ती बहिरङ्गा। प्रागेव तु ब्राआहृतद्धितोत्पत्तेर्ढाश्रयो विकल्पो भवन्नन्तरङ्गस्तां बाधितुं न शक्नोति। ततश्च यदीदं नारभ्येत तदा स्यादेव। तस्माद्विकल्पार्थमिदमारभ्यते॥