प्रवाहणशब्दस्य ढे प्रत्यये परत उत्तरपदस्येति व्यधिकरणे षष्ठ्यौ। प्रवाहणशब्दसय यदुत्तरपदमवयवस्तस्येत्यर्थः। "प्रवाहणेयः" इति। वहेः प्रपूर्वाण्णिच्()--प्रवाहयतीति प्रवाहणः।
णिजन्तात्? "कृत्यल्युटो बहुलम्()"
३।३।११३ इति कत्र्तरि ल्युट्(), प्रादिसमासः, "णेर्विभाषा"
८।४।२९ इति णत्वम्(), ततोऽपत्यार्थे ढक्()। किमर्थं पुनरुत्तरपदस्य वृद्धिर्विधीयते,
यावता वृद्धिमवेवैतत्()? यदप्येवम्(), तथापि वृद्धिरविधातव्या; तद्धितस्य वृद्धिनिमित्तत्वात्(), "वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे"
६।३।३८ इति पुंवद्भावप्रतषेधो यथा स्यात्()। यदि ह्रुत्तरपदवृद्धिर्न विधीयते,
ततो यस्मिन्? पक्षे पूर्वपदे वृद्धिर्न विधीयते तस्मिन्? पक्षे प्रवाहणेयी भार्या अस्येति प्रवाहणेयीभायं इत्यत्र पुंवद्भावप्रतषेधो न स्यात्();
वृद्धेरनिमित्तत्वात्? तद्धितस्य। यथा--वैयाकरणभायं इत्यत्र। ननु चासत्यपि वृद्धिनिमित्तत्वे तद्धितस्य" "जातेश्च"
६।३।४० इति पुंवद्भावप्रतिषेधो भविष्यति, अस्ति ह्रत्रापि "गोत्रं च चरणैः सह" (म।भा।२।
२२५) इति जातित्वम्()? एवं तर्हि एतज्ज्ञापयति--अनित्योऽयं प्रतिषेध इति। तेन हस्तिनीनां समूहो हास्तिकमित्यत्र "भस्याढे तद्धिते" (वा।७३१) इत्यौपसंख्यानिकस्य पुंवद्भावस्य प्रतिषेधो न भवति॥
प्रवाहणस्य। उत्तरपदस्येत्यधिकृतम्। "तद्धितेष्वचामादे"रित्यतोऽचामादेरित्यनुवर्तते। "मृजेर्वृद्धि"रित्यतो वृद्धिरिति, "अर्धात्परिमाणस्य पूर्वस्य तु वे"त्यतः पूर्वस्य वेतिच। तदाह--प्रवाहणशब्दस्येति। प्रावाहणेयः प्रवाहणेनय इति। शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः। उत्तरपदस्य नित्यम्। उत्तरपदे आकारस्य वृद्धेः फलं तु "प्रवाहणेयीभार्य" इत्यत्र "वृद्धिनिमित्तस्य चे"ति पुंवत्त्वप्रतिषेध एव।