पूर्वम्: ७।३।२९
अनन्तरम्: ७।३।३१
 
सूत्रम्
नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्॥ ७।३।३०
काशिका-वृत्तिः
नञः शुचीइश्वरक्षेत्रज्ञकुशलनिपुणानाम् ७।३।३०

नञः उत्तरेषां शुचि ईश्वर क्षेत्रज्ञ कुशल निपुण इत्येतेषाम् अचामादेरचः वृद्धिर् भवति, पूर्वपदस्य वा भवति तद्धिते ञिति, णिति, किति च परतः। शुचि अशौचम्, आशौचम्। ईश्वर अनैश्वर्यम्, आनैश्वर्यम्। क्षेत्रज्ञ अक्षैत्रज्ञ्यम्, आक्षैत्रज्ञयम्। कुशल अकौशलम्, आकौशलम्। निपुण अनैपुणम्, आनैपुणम्। अत्र केचिदाहुः इयं पूर्वपदस्य वृद्धिरप्राप्तैव विभाषा विधीयते। न नञ्पूर्वात् तत्पुरुषातित्युत्तरो भावप्रत्ययः प्रतिषिध्यते। तत्र शुच्यादिभ्यः एव प्रत्यये कृते पश्चान्नञ्समासे सति वृद्धिरनङ्गस्यापि वचनात् भवति इति। तदपरे न मृष्यन्ते। भाववचनादन्योपि हि तद्धितो वृद्धिनिमित्तमपत्यादिषु अर्थेषु नञ्समासादेव विद्यते। बहुव्रीहेश्च नञ्समासात् भाववचनो ऽपि अस्ति, तत्र अङ्गाधिकारोपमर्दनं न युज्यते इति। अक्षेत्रज्ञानीश्वरौ तत्पुरुषौ एव ब्राह्मणादिषु पठ्येते, ततः ताभ्यां भावे ष्यञ् भवति।
न्यासः
नञः शुची�आरक्षेत्रज्ञकुशलनिपुणानाम्?। , ७।३।३०

उदाहरणान्युत्तरत्र व्युत्पादयिष्यन्ते। "अत्र केचदहुः" इत्यादि। ग्रहणकवाक्यम्()। अस्य "न नञ्पूर्वात्? तत्पुरुषात्()" इति विवरणम्()। "न नञ्पूर्वात्? तत्पुरुषात्()" ५।१।१२० इति त्वतल्भ्यामन्यो भावप्रत्ययः प्रतिषेध्यते, तत्रोत्तरं भावप्रत्ययमिच्छता शूच्यादिभ्य एव, न तु नञ्समासेभ्य उत्तरो भावप्रत्ययः कत्र्तव्यः। तस्मिन्? कृते पश्चान्नञ्समासः, ततश्चाङ्गस्यामादेरचो विधीयमाना वृद्धिर्न प्राप्नोति। न हि पूर्वं भावप्रत्यये कृते पश्चान्नञ्समासे नञ्? अङ्गसयाचामादिर्भवति, उत्तरपदस्यैवाङ्गत्वात्(); उच्यते चेदं वचनम्(), तत्र वचनसामथ्र्यादङ्गस्यापि वृद्धिर्भवति। "तदपरे" इत्यादि। यदुक्तमियं पूर्वपदस्य वृद्धिरप्राप्तैव विभाष विधीयत इति, तदपर आचार्या न क्षमन्ते। किं कारणम्()? इत्याह--"भाववचनादन्योऽपि हि" इत्यादि। एवकारो भिन्नक्रमो विद्यत इत्यस्यानन्तरं द्रष्टव्यः। यदि नञ्समासादपत्यादिष्वर्थेषु वृद्धिनिमित्तं भाववचनादपरस्तद्धितो न विद्येत, एवं बहुव्रीहेश्च नञ्समासाद्भाववचनादन्योऽपि न विद्येत; ततो युज्यतेऽशुच्चादिशब्दानामनङ्गत्वादङ्गाधिकारोपमर्दनेन वृद्धिवचनस्याकृतार्थत्वात्()। न त्वेतदेवम्; विद्यत एव ह्रन्योऽपत्यादिव्वर्थेषु नञ्समासाद्()वृद्धिनिमित्तस्यद्धितः--अकुशलस्यापत्यमाकौशलिः, अकुशलस्येदमाकौशलमिति। बहुव्रीहेश्च नञ्समासाद्भाववचनोऽपि विद्यत एव--नास्य शुचयो विदयन्त इत्यशुचिः, तस्य भावः, "इगन्ताच्च लघुपूर्वात्()" ५।१।१३० इत्यण्()--आशौचम्()। यत एवमन्योऽपि भाववचनात्? तद्धितो नञ्समासाद्धिद्यते, वृद्धिनिमित्तको बहुव्रीहेश्च नञ्समासाद्भाववचनोऽपि विद्यते; तस्मात्? तत्र कृतार्थत्वाद्वचनस्याङ्गाधिकारबाधनं च युच्यते। यदप्युक्तम्()--"न नञ्पूर्वात्? तत्पुरुषादित्यृत्तरो भावप्रत्ययः एव"(इति), तदप्ययुक्तमिति दर्शयन्नाह--"अक्षेत्रज्ञोऽनी()आरः"["अक्षेत्रज्ञानी()आरौ"--काशिका] इत्यादि। एतौ हि द्वौ शब्दौ बाहृणादिषु तत्पुरुषावेव पठ()एते, तेनाभ्यां तत्पुरुषाभ्यामेव ष्यञ्? भवति, अन्यथा हि ब्राआहृणादिष्वनयोः पाठस्य वैयथ्र्यं स्यात्()। तस्मादङ्गस्यैवेयं वृद्धिर्नित्यं प्राप्ता सती भावप्रत्यये, अन्यत्र च तद्धिते विकल्पेन विधीयते यथायोगम्()। ततराशौचमिति यदि तत्पुरुषः क्रियते--न शुचिरशुतचिः, तदा "तस्येदम्()" ४।३।१२० इत्यणि कृते वृद्धिः; अथ बहुव्रीहिः--नास्ति शुचिरस्येन्यशुचिः, ततो यदि भावार्थो विवक्ष्यते तदा "इगन्ताचच लघुपूर्वात्()" ५।१।१३० इत्यण्(); अथ "तस्येदम्()" ४।३।१२० इत्यर्थो विवक्ष्यते, तदा "प्राग्दीवयतोऽण्()" ४।१।८३ इत्यण्()--आनै()आय्र्यम्(), आक्षैत्रज्ञ्यमिति। तत्पुरुषाभ्यां ब्राआहृणादित्वात्? व्यञि कृते वृद्धिः। आकीशलमानैपुणमिति यदि बहुव्रीहिरयापि तत्पुरुषः, उभयथापि "तस्येदम्()" ४।३।१२० इत्यणेव। यद्यपि कुशलनिपुणशब्दौ ब्राआहृणादिषु युधादिषु च पठ()एते तथापि तदन्तात्? तत्पुरुषाद्वहुव्रीहेरपि भावप्रत्ययो नोपपद्यते; तदन्तविधेरभावात्()।