पूर्वम्: ७।३।२६
अनन्तरम्: ७।३।२८
 
सूत्रम्
नातः परस्य॥ ७।३।२७
काशिका-वृत्तिः
नातः परस्य ७।३।२७

अर्धात् परस्य परिमाणाकारस्य वृद्धिर् न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः। अर्धप्रस्थिकः, आर्धप्रस्थिकः। अर्धकंसिकः, आर्धकंसिकः। अतः इति किम्? आर्धकौडविकः। तपरकरणं किम्? इह मा भूत्, अर्धखार्यां भवा अर्धखारी। किं च स्यात्? अर्धखारी भार्या यस्य अर्धखारीभार्यः, वृद्धिनिमित्तस्य च तद्धितस्य अरक्तविकारे ६।३।३८ इति पुंवद्भावप्रतिषेधो न स्यात्। यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवति इति पुंवद्भावो न प्रतिषिध्यते, यथा वैयाकरणी भार्या अस्य वैयाकरणभार्यः इति।
न्यासः
नातः परस्य। , ७।३।२७

पूर्वेण परिमाणस्य वृद्धिरुच्यमाना अकारस्याचमादेः प्राप्नोतीति प्रतिषिध्यते। पूर्वपदस्य तु विकल्पो भवत्येव; पूर्वस्य त्वित्यनुवृत्तेः। "आर्धप्रस्थिकः" इति। "अर्धं नपुंसकम्()" २।२।२ इति समासः, पूर्ववत्? प्रत्ययः। "किञ्च स्यात्()" इति। एवं मन्यते--आकारो हि वृद्धिमानेव, ततर नास्ति विशेषः सत्यसति वा वृद्धिपरतिषेधे, तदेव रूपम्(), अतोऽसत्यपि तपरकरणे नैव किञ्चिदनिष्टमापद्यत इति। "वृद्धिनिमित्तस्य" इत्यादि। यसति तपरकरणे तत्कालार्थे यदनिष्टमापद्यते तद्दर्शयति। किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात्()? इत्यत आह--"यत्र हि" इत्यादि। वृदिं()ध कुर्वन्नेव हि तद्धितो वृद्धिनिमित्तं भवति। तस्माद्यत्र तद्धिते वृद्धिप्रतिषेधः क्रियते स वृद्धेनिमित्तं न भवति। तेन वृद्धिनिमित्तस्य तद्धितस्य पुंवद्भावो न प्रतिषिध्यत इति पुंवद्भावः स्यात्()। क्व? "यथा" इत्यादि। "वैयाकरणी भार्याऽस्य" इति। वृद्धिप्रतिषेधः पुनरत्र "न य्वाभ्याम्()" ७।३।३ इत्यादिना। अथ परस्येति किमर्थं, पूर्वस्य मा भूदिति? नैतदस्ति; अत इति विशेषणोपादानसामथ्र्यात्? पूर्वस्य न भविष्यति। न हि पूर्वस्यार्धशब्दस्यातोऽन्यो वृद्धिमाक्? सम्भवति, "पूर्वस्य तु वा" ७।३।२६ इति च विकल्पशासनमनर्थकं स्यात्(), यदि तस्य प्रतिषेधः स्यात्()। इदं तर्हि प्रयोजनम्()--तदन्तविधिर्मा भूदिति? तदन्तदिधौ सतीहापि प्रतिषेधः स्यात्()--अर्धद्रौणिकमिति। पूर्वस्तु विधिः--अर्धेन मुष्टिना क्रोतमर्धमौष्टिकम्(), आर्धमौष्टिकमित्येवमर्थः स्यात्(), परग्रहणे तु सति यदर्धात्? परमनन्तरं तदेवाश्रितं भवतीति नास्ति तदन्तविधिप्रसङ्गः॥
बाल-मनोरमा
नाऽतः परस्य १६६३, ७।३।२७

नातः परस्य। परिमाणाऽकारस्येति। परिमाणवाचकावयवस्य अकारस्येत्यर्थः। पूर्वपदस्य तु वेति। पूर्वपदस्यादेरचस्तु वृद्धिर्वेत्यर्थः। आर्धकौडविकमिति। अर्धकुडबेन क्रीतमित्यर्थः। "तेन क्रीत"मिति ठञ्। अत्र कुडवशब्दस्य परिमाणविशेषवाचिन आदेरचोरकारत्वाऽभावान्न वृद्धिनिषेधः। किन्तु "अर्धात्परिमाणस्य"त्युत्तरपदवृद्धिरिति भावः। तपरः किमिति। दीर्घस्याकारस्य वृद्धिनिषेधे फलाऽभावाद्ध्रस्वस्येति सिद्धमिति प्रश्नः। अर्धखारीति। निषेधो न स्यादिति। पूर्वपदस्य वृद्ध्यभावपक्षे वृदिं()ध प्रति फलोपहितनिमित्तत्वाऽभावादिति भावः। पूर्वपदस्य वृद्धिपक्षे तु वृदिं()ध प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्त्वनिषेधः। परिमाणान्तस्येत्यारभ्या एतदन्तं साप्तमिकम्। अथ प्रकृतं पाञ्चमिकम्।