पूर्वम्: ७।२।२३
अनन्तरम्: ७।२।२५
 
सूत्रम्
अर्देः संनिविभ्यः॥ ७।२।२४
काशिका-वृत्तिः
अर्देः संनिविभ्यः ७।२।२४

सम् नि वि इत्येतेभ्य उत्तरस्य अर्देः निष्ठायाम् इडागमो न भवति। समर्णः। न्यर्णः। व्यर्णः। अर्देः इति किम्? समेधितः। संनिविभ्यः इति किम्? अर्दितः।
न्यासः
अर्देः सन्निविभ्यः। , ७।२।२४

"अर्देः" इति। "अर्द गतौ याचने च" (धा।पा।५५)॥