पूर्वम्: ७।२।२२
अनन्तरम्: ७।२।२४
 
सूत्रम्
घुषिरविशब्दने॥ ७।२।२३
काशिका-वृत्तिः
घुषिरविशब्दने ७।२।२३

घुषेर् धातोरविशब्दने ऽर्थे निष्ठायाम् इडागमो न भवति। घुष्टा रज्जुः। घुष्टौ पादौ। अविशब्दने इति किम्? अवघुषितं वाक्यमाह। विशब्दनं प्रतिज्ञानम्। घुषिरशब्दार्थे इति भूवादिषु पठ्यते। घुषिर् विशब्दने इति चुरादिषु। तयोरिह सामान्येन ग्रहणम्। विशब्दनप्रतिषेधश्च ज्ञापकश्चुरादिणिज् विशब्दनार्थस्य अनित्यः इति। तेन अयम् अपि प्रयोगः उपपन्नो भवति, महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः। स्वाभिप्रायं शब्देन अविष्कृतवन्तः इत्यर्थः।
न्यासः
घुषिरविशब्दने। , ७।२।२३

"विशब्दनं प्रतिज्ञानम्()" इति। स्वाभिप्रायस्य शब्देनाविष्करणमित्यर्थः। "सामान्येन ग्रहणम्()" इति। विशेषानुपादानात्()। यदि "घुषिरविशब्देने" (धा।पा।१७२६) ["घुषिर्? विशब्देने--धा।पा।]इति चुरादौ पठ()ते एवं सति णिचा भवितव्यम्(), न च णिजन्तस्येटि सत्यसति वा कश्चिद्विशेषोऽस्ति। तथा हि--इटि सति "निष्ठायां सेटि" (६।४।५२) इति णिलोपे कृते घोषितमिति यद्रूपं भवत्यसत्यपीटि णिलोपाभावात्? तदेव। न च तदन्ताविट्प्रतिषेधस्य प्रप्तिरस्ति; "एकाचः" ७।२।१० इत्यधिकारात्()। भौवादिकस्य (धा।पा।६५३) ["घुषिर्? अविश्बदेन"--धा।पा।] घुषेर्विशब्दने वृत्तिरेव नास्ति; शब्दशक्तिस्वाभाव्यात्(); त()त्क विशब्दनप्रतिषेधेन? इत्यत आह--"विशब्दनप्रतिषेधः" इत्यादि। यदि च नित्यो णिच्? स्यात्(), तदा यथोक्तया रीत्या प्रतिषेधोऽनर्थकः स्यात्(), ततश्च न कत्र्तव्य एव स्यात्(), कृतश्च, तस्मादयमेव प्रतिषेधो ज्ञापयित--चुरादिणिज्विशब्दनार्थस्यानित्य इति। "जुघुषुः" इति। अनित्यप्रतिज्ञाप्रयोजनम्()। असति ह्रनित्यत्वे घोषयाञ्चक्रुरिति स्यात्()॥
बाल-मनोरमा
घुषिरविशब्दने ८७०, ७।२।२३

घुषिरविशब्दने। घुष्टा रज्जुरिति। उत्पादितेत्यर्थः। आयामितेति वा। शब्देन अभिप्रायप्रकाशनं विशब्दनम्। तदाह-- शब्देनेति।

तत्त्व-बोधिनी
घुषिरविशब्दने ७१५, ७।२।२३

घुषिरवि। घुषिरविशब्दार्थ इति भ्वादिः , घुषिरविशब्दन इति चुरादिः, द्वयोरपि सामान्येन ग्रहणम्। ननु विशब्दनार्थाद्धुषेश्चुरादिणिचा भाव्यं, ततश्च णिचा व्यवधानाद्धुषेः परा निष्ठा नास्तीति कथमिण्निषेधप्रसङ्गः, किं च विशब्दने त्विण्निषेधाऽभावाण्णिच्युपधागुणे "निष्ठायां सेटी"ति णिलोपे च "घोषितं वाक्य"मित्यपि स्यादिति चेत्। अत्राहुः-- एवं तर्हि विशब्दनप्रतिषेध एव ज्ञापकः--- विशब्दनार्थस्य चुरादिणिजनित्य इति [इति] नास्त्युक्तदोष इति दिक्।