पूर्वम्: ७।२।२४
अनन्तरम्: ७।२।२६
 
सूत्रम्
अभेश्चाविदूर्ये॥ ७।२।२५
काशिका-वृत्तिः
अभेश् च आविदूर्ये ७।२।२५

अभिशबादुत्तरस्य अर्देः आविदूर्ये ऽर्थे निष्ठायाम् इडागमो न भवति। अभ्यर्णा सेना। अभ्यार्णा शरत्। आविदूर्ये इति किम्? अभ्यर्दितो वृषलः। शीतेन पीडितः इत्यर्थः। विदूरम् विप्रकृष्टम्, ततो ऽन्यदविदूरम्, तस्य भावः आविदूर्यम्। एतस्मादेव निपातनात् न नञ्पूर्वात् तत्पुरुषात् ५।१।१२० इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधो न भवति।
न्यासः
अभेश्चाविदूर्ये। , ७।२।२५

"विदूरं विप्रकृष्टम्()" इति। विशेषेणातिशयेन दूरं विदूरमिति कृत्वा, ततोऽन्यदविदूरम्()। तत्? पुनर्यदासन्नं यच्चादूरं न त्वतिविप्रकृष्टं तदिति वेदितव्यम्()। "तस्य भाव आदिदूर्यम्()" इति। ब्राआहृणादित्वात्? ५।१।१२३ ष्यञ्()। ननु च "न नञ्पूर्वात्? तत्पुरुषात्()" (५।१।१२१) इत्युत्तरस्य भावप्रत्ययस्य प्रतिषिद्धत्वात्? ष्यञा न भवितव्यम्()? इत्यत आह--"एतस्मादेव" इत्यादि। उत्तरत्वं तु भावप्रत्ययस्य त्वतलापेक्षया वेदितव्यम्()॥
बाल-मनोरमा
अभेश्चाऽ‌ऽविदूर्ये ८७२, ७।२।२५

अभेश्चाविदूर्ये। अविदूरस्य भाव आविदूर्यम्। तस्मिन् गम्ये अभेः परोऽर्दिरनिट्क इत्यर्थः। सामीप्य इत्येव तु नोक्तम्, अनतिदूरस्य असङ्ग्रहापत्तेः। तत्सूचयन्नाह-- नातिदूरमिति।

तत्त्व-बोधिनी
अभेश्चाऽ‌ऽविदूर्ये ७१६, ७।२।२५

अभेः। विशेषेण दूरं विदूरं, ततोऽन्यविदूरं, तस्य भाव आविदूर्यम्। ब्राआहृणादित्वात्ष्यञ्। अस्मादेव निर्देशात् न नञ्पूर्वात्तत्पुरुषा"दिति निषेधो न भवति। सामीप्य इत्येव तु नोक्तं, नातिदूरस्याऽसङ्ग्रहापत्तेः, तदेतद्ध्वनयन्व्याचष्टे-- नातिदूरमासन्नं वेति। एवं च सामीप्य इति प्राचीनव्याख्यानमुपलक्षणतया नेयमितयाहुः।