पूर्वम्: ७।१।६३
अनन्तरम्: ७।१।६५
 
सूत्रम्
लभेश्च॥ ७।१।६४
काशिका-वृत्तिः
लभेश् च ७।१।६४

लभेश्च अजादौ प्रत्यये शब्लिड्वर्जिते नुमागमो भवति। लम्भयति। लम्भकः। साधुलम्भी। लम्भंलम्भम्। लम्भो वर्तते। अशब्लिटोः इत्येव, लभते। लेभे। अचि इत्येव, लब्धा। लभेश्च पृथग्योगकरनम् उत्तरार्थम्।
न्यासः
लभेश्च। , ७।१।६४

"पृथग्योगकरणमुत्तरार्थम्()" इति। उत्तरत्रूत्रेण लभेरेव कार्यं यथा स्यात्। रभेर्मा भूदिति। यदि "रभिलभ्योरशव्लिटोः" इत्येको योगः क्रियते, ततो रभिरित्यनुवृत्तिरुत्तरत्र स्यात्()। अतश्च तस्याप्युत्तरत्र कार्यं प्रसज्येत॥
बाल-मनोरमा
लभेश्च ४१०, ७।१।६४

लभेश्च। लभेरपि नुम् स्यादचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः। अररम्भदिति। नुमि कृते संयोगपरत्वेन अकारस्य लघुत्वाऽभावान्न सन्वत्त्वमिति भावः। "हि गतौ वृद्धौ चे"त्यस्माच्चङि "अजीहय"दित्यत्र "हेरचङी"ति हकारस्य कुत्वं नेत्याह-- हेरचङीति। "अत्स्मृदृ()त्वरे"ति सूत्रं चुरादौ "प्रथ प्रख्याने" इति धातौ व्याख्यातम्। असस्मरदिति। अत्र "सन्यतः" इतीत्त्वे प्राप्ते अत्त्वम्। अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक्। संयोगपरत्वेन लघुत्वाऽभावान्नाऽभ्यासदीर्घः। अददरदिति। "दृ? विदारणे" इत्यस्य रूपम्। अत्रापि "सन्यतः" इत्यस्यापवादोऽयम्। दीर्घमाशङ्क्याह-- तपरत्वसामथ्र्यादिति। अतत्वरत्। अपप्रथत्। अमम्रदत्। अतस्तरत्। अपस्पशत्।

तत्त्व-बोधिनी
लभेश्च ३५९, ७।१।६४

योगविभागः "आङो यी"त्यत्र लभेरेवानुवृत्तर्यथा स्यादिति।

* काण्यादीनांवेति वक्तव्यं। काण्यादीनामिति। "कण निमीलने"। रण शब्दे"। "श्रम छेदने"। "हेठ बिबाधायाम्। षट्। "ह्वेञ् स्पर्धायां शब्दे च"। "वण शब्दे"। "लुट (ठ) प्रतिघाते" लुप्लृ छेदने"। लोपीति णिजन्तनिर्देशः। लापयतीति। पाठान्तरम्। लप व्यक्तायां वाचि। केचित्तु लप हेठ इति पठन्ति। न्यासे चत्वारः। "चण दाने"। "लुठ स्तेये" भ्वादिः। चुरादौ दण्डकपाठे भाषार्थकोऽपि। अजिहेठत्।