पूर्वम्: ७।१।६२
अनन्तरम्: ७।१।६४
 
सूत्रम्
रभेरशब्लिटोः॥ ७।१।६३
काशिका-वृत्तिः
रभेरशब्लिटोः ७।१।६३

रभेरङ्गस्य शब्लिड्वर्जिते ऽजादौ प्रत्यये परतो नुमागमो भवति। आरम्भयति। आरम्भकः। साध्वारम्भी। आरम्भमारम्भम्। आरम्भो वर्तते। अशब्लिटोः इति किम्? आरभते। आरेभे। अचि इत्येव, आरब्धा।
न्यासः
रभेशब्लिटोः। , ७।१।६३

"आरेभे" इति। "रभ राभस्ये" (धा।पा।९७४) लिट्(), अनुदात्तेत्त्वादत्मनेपदम्()। "लिटस्तझयोरेशिरेच्()" ३।४।८१ इत्येशू, पूर्ववदेत्त्वाभ्यासलोपौ॥
बाल-मनोरमा
रभेरशब्लिटोः ४०९, ७।१।६३

रभेरशब्लिटोः। "इदितो नुम्धातोरित्यतो नुमिति। "रधिजभोरची"त्यतोऽचीति चानुवर्तते। तदाह -- रभेर्नुमित्यादि।

तत्त्व-बोधिनी
रभेरशब्लिटोः ३५८, ७।१।६३

रभेरशब्लिटोः। "रधिजभो"रित्यतोऽचीति, "इदितः" इत्यतो नुमितिचानुवर्तते। अचि किम?। आरब्धम्। अशब्लिटोः किम्?। रभते। रेभे।