पूर्वम्: ७।१।६४
अनन्तरम्: ७।१।६६
 
सूत्रम्
आङो यि॥ ७।१।६५
काशिका-वृत्तिः
आङो यि ७।१।६५

आङः उत्तरस्य लभेः यकारादिप्रययविषये नुमागमो भवति। आलम्भ्या गौः। आलम्भ्या वडवा। प्राक् प्रत्ययोत्पत्तेः नुमि कृते विहितमदुपधत्वम् इति ऋहलोर् ण्यत् ३।१।१२४ इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तस्वरितत्वं भवति। यति तु पुनरुत्तरपदाद्युदात्तत्वं स्यात्। आङः इति किम्? लभ्यम्। कथम् अग्निष्टोम आलभ्यः इति? सर्वे विधयश् छन्दसि विकल्प्यन्ते। अथ वा आलभ्यः इत्यत्र नुमि कृते ऽनुषङ्गलोपः क्रियते।
न्यासः
आङो यि। , ७।१।६५

"यकारादौ प्रत्यय" इति। अनेन "यि" इत्यस्याः सप्तम्या विषयसप्तमीत्वं दर्शयन्? यकारादौ प्रत्यये ववयभूतेऽनुत्पन्न एव नुम्? भवतीति दर्शयति। "प्राक्()" इत्यादिना विषयसप्तम्यां सत्यां यदिष्टं सम्पद्यते तदाचष्टे। परसप्तम्यां हि पूर्वं प्रत्ययेन भवितव्यम्(), पश्चान्नुमा, ततश्च "अदुपधात्()" (३।१।९८) इति यत्? प्रसज्येत। विषयसप्तम्यां तु प्रागुत्पन्नेन नुमाऽदुपधत्वस्य विहतत्वात्? "ऋहलोण्र्यत्()" ३।१।१२४ इत ण्यदेव भवति। कः पुनण्र्यति यत वा विशेषः; यावतोभयत्रापि तदेव रूपमिति, व्यत्प्रत्ययेऽपि वृद्ध्या न भवितव्यम्(), तथा च प्रागुक्तम्()--"परापि सती वृद्धिर्नित्यत्वाभुमा बाध्यते" इति? अत आह--"तत्र" इत्यादि। तत्र ण्यति सति तित्स्वरितत्वात्? "गतिकारकोपपदात्? कृत्()" ६।२।१३८ इति प्रकृतिस्वरः; तेनालम्भ्य इत्युदाहरणमन्त्यस्वरितं भवति। यति तु "यतोऽनावः" ६।१।२०७ इत्याद्युदात्तत्वे सति प्रकृतिवद्भावेनाप्युदात्तत्वमित्यस्ति विशेषः। "लभ्यम्()" इति। यदन्तमेतत्()। "एवमालभ्य" इत्येतदपि। आलभ्यत इति भावे कर्मणि वा लकारः। "अनुषङ्गलोपः क्रियते" इति। "अनिदताम्()" ६।४।२४ इत्यादिना॥
बाल-मनोरमा
आङो यि ६६६, ७।१।६५

आङो यि। "इदितो नुम् धातो"रित्यतो नुमिति, "लभेश्चे"त्यतो लभेरिति चाऽनुवर्तते। तदाह-- आङः परस्येति। विवक्षिते इति। "यी" इति विषयसप्तमीति भाष्ये स्पष्टम्। "विवक्षिते" इत्यस्य प्रयोजनमाह--नुमि कृते इति। यत्प्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव नुमि कृते अदुपधत्वाऽभावाद्यत्प्रत्ययस्याऽप्रवृत्तेण्र्यदेवेत्यर्थः। "यति परे नु"मित्यर्थे तु अदुपधत्वाद्यदेव स्यान्नतु ण्यदिति भावः। आलम्भ्यो गौरिति। यद्यपि यण्ण्यतोर्न रूपभेदस्तथापि ण्यति कृते "तित्स्वरित"मिति स्वरितत्वम्, यति तु "यतोऽनावः" इत्याद्युदात्तत्वमिति स्वरभेदः फलम्।