पूर्वम्: ७।१।६१
अनन्तरम्: ७।१।६३
 
सूत्रम्
नेट्यलिटि रधेः॥ ७।१।६२
काशिका-वृत्तिः
नेट्यलिटि रधेः ७।१।६२

इडादौ अलिटि प्रत्यये परे रधेर् नुमागमो न भवति। रधिता। रधितुम्। रधितव्यम्। इटि इति किम्? रन्धनम्। रन्धकः। अलिटि इति किम्? ररन्धिव। ररन्धिम। नुमि कृते संयोगान्तत्वातसंयोगल्लिट् कित् १।२।५ इति कित्त्वं न अस्ति इति नलोपो न भवति। अथ क्वसौ कथं भवितव्यम्? रेधिवानिति। कथम्? एत्वभ्यासलोपयोः कृतयोः इडागमः क्रियते, ततो नुमागमः, तस्य औपदेशिककित्त्वश्रयो लोपः। अथ इटि लिटि इत्येवं नियमः कस्मान् न क्रियते, लिट्येव इटि न अन्यत्र इति? विपरीतम् अप्यवधारणं सम्भाव्येत, इट्येव लिटि न अन्यत्र इति। तथा हि सति ररन्ध इत्यत्र न स्यात्, रधिता इत्यत्र च स्यादेव।
न्यासः
नेट�लिटि रथेः। , ७।१।६२

पूर्वेण प्राप्तस्य नुमः प्रतिषेध उच्यते। "रधिता" इत्यादि। "रधादिभ्यश्च" ७।२।४५ इतीट्()। "ररन्धिव, ररन्धिम" इति। क्रादिनियमादिट्? ७।२।१३ "परस्मैपदानाम्()" ३।४।८२ इत्यादिना वस्मसोर्वमादेशौ। ननु रधिरयमसंयोगान्तः पठ()ते, तत्र "असंयोगाल्लिट्? कित्()" १।२।५ इति कित्त्वे "अनिदिताम्()" ६।४।२४ इति नलोपः प्राप्नोति, स कस्मान्न भवति? इत्याह--"नुमि कृते" इत्यादि। "उपदेशावस्थायामेव नुम्? भवति" इत्युक्तमेतत्(), तेनोपदेशावस्थायामेव नुमि कृते संयोगान्तत्वं जातमिति कित्त्वं नास्तीति न भवति नलोपः। "अथ क्वसौ कथं भवितव्यम्()" इति। किं रराध्वानिति भवितव्यम्(), उत रेधिवानिति पृच्छति। अपर आह--"रेधिवात्()" इति। लिटः "क्वसुश्च" ३।२।१०७ इति क्वसुः, द्विर्वचनम्(), "अत एकहल्मध्ये"६।४।१२० इत्यादिनैत्त्वांभ्यासलोपौ, "वस्वेकाजाद्घसाम्()" (७।२।६७) इतीट्? नुम्(), "सान्तमहतः संयोगस्य" ६।४।१० इति दीर्घः। "कथम्()" इत्यादि। एवं मन्यते--यदेङ्? भवति त()स्मश्च नुमा भवितव्यम्(), नुमि च सत्येकहल्मध्यता नास्तीत्येत्त्वेऽब्यासलोपयोः पुनः प्रत्यापत्त्या भवितव्यम्(), ततश्च कृतद्विर्वचन एकाण्न भवतीतीटा न भवितव्यम्(); तस्माद्ररध्वानिति युक्तं भवितुमिति। इतरस्तु कृतसयापि नुमोऽत्रि लोपेन भवितव्यम्(), ततश्चैकहल्मध्यताभावो नोपपद्यते, कुतः पुनरेत्त्वाभ्यासलोपयोः प्रत्यापत्तिः? इत्याह--"एत्त्वाभ्यासलोपयोः कृतयोः" इत्यादि। कृतद्विर्वचनानामेकाचां क्वसोरिङ् विधीयते। "ततो नुमागमः" इति। अचि तद्विधानात्? तस्यौपदेशिकत्त्वाश्रयो लोप इत्यौपदेशिकग्रहणान्नुमि कृते संयोगान्तत्वादातिदेशिकस्य कित्त्वस्यासम्भवात्()। "अथ" इत्यादि। इटि "नेटि" ७।२।४ इत्युच्यमाने पुर्वेण सिद्धे सति नियमर्थमेतद्भविष्यति--लिट()एवेडादौ, नान्यस्मिन्निडादाविति। तेन ररन्धिव, ररन्धिमेत्यादौ भविष्यति, न रधितेत्येवमादौ। तस्मादिटिलिटीति कस्मान्नोक्तम्(), एवं सतीष्टं सिध्यति, लघु च सूत्रं भवतीति भावः। "लिट()एव" इति। नियमस्वरूपं दर्शयति। "नान्यत्र" इत्यनेनापि तस्य व्यवच्छेद्यम्()। यतो हेतोर्नियमो न क्रियते, तं दर्शयितुमाह--"विपरीतम्()" इत्यादि। "इट()एव लिटि" इति। विपरीतनियमसय स्वरूपकथनम्()। "नान्यत्र" इत्यनेनापि तद्ध्यवच्छेद्यं दर्शयति। कस्माद्विपरीतमवधारणं नेष्यते? इत्याह--"तथा हि" इत्यादि। इट()एव लिटीत्यस्य नियमस्यानिडादिर्ल्लिङ्()व्यावर्त्त्य इतीडादावेव लिटि भवति, नानिडादाविति। ततश्चानिडादित्वाद्ररन्धेत्यत्र नुम्? न स्यात्()। रधितेत्यत्र पूर्वेम स्यादेव; नियमेनाव्यावर्त्तितत्वात्()। तस्मात्तद्दोषपरिजिहीर्षया नियमो न क्रियते॥
बाल-मनोरमा
नेट�लिटि रधेः ३४६, ७।१।६२

नेट()लिटि रधेः। "इदितो नुम् धातो"रित्यतो नुमित्यनुवर्तते। तदाह--लिड्वर्जे इटीति। अङित्विति। पुषाद्यङि कृते सतीत्यर्थः। अरधदिति। "मो अहं द्विषतेऽरधम्।" णश अदर्शने इति। णोपदेशोऽयं सेट्। "रधादिभ्यश्चे"ति वट्। तत्र इट्पक्षे आह--नेशिथेति। "थलि च सेटी"त्येत्त्वाभ्यासलोपाविति भावः। इडभावपक्षे ननश्- थ इति स्थिते--

तत्त्व-बोधिनी
नेट�लिटि रधेः ३०३, ७।१।६२

नेट()लिटि। इटीति किम्?। रन्धकः। अलिटीति किम्?। ररन्धिव। नुमि कृते संयोगात्परत्वेनाऽकित्त्वान्नलोपो न।