पूर्वम्: ७।१।४७
अनन्तरम्: ७।१।४९
 
सूत्रम्
इष्ट्वीनमिति च॥ ७।१।४८
काशिका-वृत्तिः
इष्ट्वीनम् इति च ७।१।४८

इष्ट्वीनम् इत्ययं शब्दो निपात्यते छन्दसि विषये। यजेः क्त्वाप्रत्ययान्तस्य ईनम् आदेशो ऽन्त्यस्य निपात्यते। इष्ट्वीनं देवान्। इष्ट्वा देवानिति प्राप्ते। पीत्वीनम् इत्यपि इष्यते। चकारस्य अनुक्तसमुचयार्थत्वात् सिद्धम्।
न्यासः
इष्ट्वीनमिति च। , ७।१।४८

"इष्ट्वीनम्()" इति। वच्यादिसूत्रेण ६।१।१५ सम्प्रसारणम्()। "पीत्वीनम्()" इति। "धुमास्था" ६।४।६६ इत्यादिनेत्त्वम्()। एतच्चेतिकरणादाद्यर्थाच्चकरास्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। अनयोरन्यतरोपादानेनैव सिद्ध उभयोरुपादानं वैचित्र्यार्थम्()॥