क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये। दत्त्वाय सविता धियः। दत्त्वा इति प्राप्ते। क्त्वापि छन्दसि
७।१।३८ इत्यस्य अन्तन्तरम् इदं कस्मान् न उच्यते? समासे इति तत्र अनुवर्तते।
"दत्त्वाय" इति।
"दो दद्? घोः"
७।४।४६ इति ददादेशः।
"क्त्वापि छन्दसि" इत्यादि। एवमुच्यमाने द्विः क्त्वाग्रहणं न कत्र्तव्यमिति भावः। "समास इत्यत्रानुवत्र्तते" इति। "समासेऽनञ्पूर्वे"
७।१।३७ इत्यतः। यदि तस्यानन्तरमिदमुच्यते, तत्रापि समासग्रहणमनुवत्र्तत इत्याशङ्का स्यात्(), ततस्तस्यानुवृत्तिनिवृत्त्यर्थं तस्यानन्तरमिदं नोक्तमित्यभिप्रायः॥