पूर्वम्: ७।१।४८
अनन्तरम्: ७।१।५०
 
सूत्रम्
स्नात्व्यादयश्च॥ ७।१।४९
काशिका-वृत्तिः
स्नात्व्यादयश् च ७।१।४९

स्नात्वी इत्येवम् आदयः शब्दा निपात्यन्ते छन्दसि विसये। स्नात्वी मलदिव। स्नात्व इति प्राप्ते। पीत्वी सोमस्य वावृधे। पीत्वा इति प्राप्ते। प्रकारार्थो ऽयम् आदिशब्दः।
न्यासः
स्नात्व्यादयश्च। , ७।१।४९

"स्नात्वी, पीत्वी" इति। आकारस्य स्थान ईत्त्वन्निपात्यते। ननु च स्नात्व्यादयः शब्दाः प्रातिपदिकगणे न पठ()न्ते, तत्कथं ते वेदितव्याः? कथं चादिशब्देन ते शक्या लक्षयितुम्()? इत्याह "प्रकारार्थोऽयमादिशब्दः" इति। एवम्प्रकारा य एतत्सदृशाः शब्दास्ते स्नात्व्यादयो वेदितव्यः॥