पूर्वम्: ७।१।४१
अनन्तरम्: ७।१।४३
 
सूत्रम्
ध्वमो ध्वात्॥ ७।१।४२
काशिका-वृत्तिः
ध्वमो ध्वात् ७।१।४२

छन्दसि विषये ध्वमो ध्वातित्ययम् आदेशो भवति। अन्तरेवोष्माणं वारयध्वात्। वारयध्वम् इति प्राप्ते।
न्यासः
ध्वमो ध्वात्?। , ७।१।४२

"वारयध्वात्()" इति। वृञो वृङो वा हेतुमण्णिजन्तात्? "वृञ्? आवरणे" (धा।पा।१८१३) इत्यस्माद्वा चुरादिणायन्ताल्लोट्(), तस्य ध्वम्(), तस्य ध्वात्()। "वारयध्वम्()" इति। टेरेत्त्वे कृते "सवाभ्यां वामौ" ३।४।९१ इत्यमादेशः॥