पूर्वम्: ७।१।४२
अनन्तरम्: ७।१।४४
 
सूत्रम्
यजध्वैनमिति च॥ ७।१।४३
काशिका-वृत्तिः
यजध्वैनम् इति च ७।१।४३

यजध्वम् इत्येतस्य एनम् इत्येतस्मिन् परतो मकारलोपो निपात्यते वकारस्य च यकारः छन्दसि विषये। यजध्वैनं प्रियम् एधाः। यजध्वमेनम् इति प्राप्ते।
न्यासः
यजध्वैनमिति च। , ७।१।४३