पूर्वम्: ७।१।४०
अनन्तरम्: ७।१।४२
 
सूत्रम्
लोपस्त आत्मनेपदेषु॥ ७।१।४१
काशिका-वृत्तिः
लोपस् त आत्मनेपदेषु ७।१।४१

आत्मनेपदेषु यस्तकारः तस्य छन्दसि विषये लोपो भवति। देवा अदुह्र। गन्धर्वाप्सरसो अदुह्र। अदुहत इति प्राप्ते। दुहामश्विभ्यां पयो अघ्न्येयम्। दुग्धाम् इति प्राप्ते। दक्षिणत उपशये। शेते इति प्राप्ते। अपि इत्यधिकारान् न भवति, तत्र आत्मानमनृतं कुरुते। आत्मनेपदेषु इति किम्? वत्सं दुहन्ति कलशं चतुर्बिलम्।
न्यासः
लोपस्त आत्मनेपदेषु। , ७।१।४१

"अदुह्य" इति। दुहेर्लङ, अदादित्वाच्छपो लुक्(), "आत्मनेपदेष्वनतः" ७।१।५ इत्यादेशः, "बहुलं छन्दसि" ७।१।८ इति रुट्(), तकारलोपे कृते द्वयोरकारयोः "अतो गुणे" ६।१।९४ परूपत्वम्()। दुह्याम्()" इति। लोट्(), बहुवचनं झः, टेरेत्वम्(), आमादेशः, झादेशस्याते रुडागमः, पूर्वच्छपो लुक्(), तकारलोपे कृते "अकः सवर्णे दीर्घः, ६।१।१०। "शये" इति। लट्(), एकवचनान्तः, "शीङः सार्वधातुके गुणः" ७।४।२१, शपो लुक्()। "दुहाम्()" इति। लोट्? एकवचनान्तः, टेरेत्त्वम्(), "आमेतः" ३।४।९० इत्याम्()। "दुग्धाम्()" इति। "दादेर्धातोर्धः ८।२।३२, "झषस्तथोर्धोऽधः" ८।२।४० इति धत्वम्(), "झलां जश्? शशि" ८।४।५५ इति धकारस्या गकारः। "अपीत्यधिकरात्()" इत्यादि। "क्त्वादि छन्दसि" ७।१।३८ इत्यतोऽपीत्यनुवत्र्तते, तत्रैवमभिसम्बन्धः क्रियते--लोपो भवति श्रवणमपीति; तेन कुरुत इत्यत्र न भवति। करोतेर्गुणे कृते "अत उत्सार्वधातुके" ६।४।११० इत्युत्त्वम्()। यदि अपिशब्दानुवृत्तेः क्वचिच्छ्रवणमिप भवति, अत एव हेतोः परस्मैपदेषु न भवतीति किमात्मनेपदग्रहणेन? एवं तर्हि विस्पष्टार्थमात्मनेपदग्रहणम्()॥