पूर्वम्: ६।२।९६
अनन्तरम्: ६।२।९८
 
सूत्रम्
द्विगौ क्रतौ॥ ६।२।९७
काशिका-वृत्तिः
द्विगौ क्रतौ ६।२।९७

द्विगौ उत्तरपदे क्रतुवाचिनि समासे पूर्वपदम् अन्तोदात्तं भवति। गर्गत्रिरात्रः। चरकत्रिरात्रः। कुसुरविन्दसप्तरात्रः। गर्गाणां त्रिरात्रः गर्गत्रिरात्रः। द्विगौ इति किम्? अतिरात्रः। अचश्चित्वा दन्तोदात्तः। क्रतौ इति किम्? बिल्वसप्तरात्रः। बिल्वशतस्य बिल्वहोमस्य वा सप्तरात्रः बिल्वसप्तरात्रः।
न्यासः
द्विगौ क्रतौ। , ६।२।९७

"गर्गत्रिरात्रादयः" षष्ठीसमासाः। तिसृणां रात्रीणां समाहारस्त्रिरत्रः। "अहःसर्वेकदेश (५।४।८७) इत्यादिनाच्? समासान्तः। "अतिरात्रः" इति। रात्रिमतिक्रान्त इति प्रादिसमासः॥