पूर्वम्: ६।२।९५
अनन्तरम्: ६।२।९७
 
सूत्रम्
उदकेऽकेवले॥ ६।२।९६
काशिका-वृत्तिः
उदके ऽकेवले ६।२।९६

अकेवलं मिश्रम्। तद्वाचिनि समासे उदकशब्दे उत्तरपदे पूर्वपदम् अन्तोदात्तं भवति। गुडमिश्रम् उदकम् गुडोदकम्, गुडोदकम्। तिलोदकम्, तिलोदकम्। स्वरे कृते एकादेशः स्वरितो वानुदात्ते पदादौ ८।२।६ इति पक्षे स्वरितो भवति। अकेवले इति किम्? शीतोदकम्। उष्णोदकम्।
न्यासः
उदकेऽकेवले। , ६।२।९६

"मिश्रम्()" इति। द्रव्यान्तरसम्पृक्तमित्यर्थः। "गुडमिश्रम्()" इति। शाकपार्थिवादित्वा(वा।८३)दुत्तरपदलोपिसमासः। "शीतोदकम्()" इति। विशेषणसमासः। पूर्वपदमत्र गुणोपसर्जनमुदकं ब्राऊते। उत्तरपदमपि जात्युपसर्जनम्()। तथैव तेनैकमेव वस्तु जातिगुणाब्यामुच्यत इति केवलोदकवाचिसमासः॥