पूर्वम्: ६।२।९७
अनन्तरम्: ६।२।९९
 
सूत्रम्
सभायां नपुंसके॥ ६।२।९८
काशिका-वृत्तिः
सभायां नपुंसके ६।२।९८

सभाशब्दे उत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदम् अन्तोदात्तं भवति। गोपालसभम्। पशुपालसभम्। स्त्रीसभम्। दासीसभम्। सभायाम् इति किम्? ब्राह्मणसेनम्। नपुंसकम् इति किम्? राजसभा। ब्राह्मणसभा। सभायां प्रतिपदोक्तं नपुंसकलिङ्गं गृह्यते इति समणीयसभम्, ब्राह्मणकुलम् इत्यत्र न भवति।
न्यासः
सभायां नपुंसके। , ६।२।९८

"गोपालसभम्()" इत्येवमादयोऽपि षष्ठीसमासाः, "सभाराजाऽमनुष्यपूर्वा" २।४।२३ इति नपुंसकत्वम्()। "राजसभा, ब्राआहृणसभा" इत्यत्र "अमनुष्यपूर्वा" इति प्रतिषेधान्नपुंसकता न भवति। अथेह कस्मान्न भवति--रमणीया सभाऽस्य ब्राआहृणकुलस्य रमणीयसभम्()? इत्यत आह--"प्रतिपदोक्तम्()" इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) यत्? प्रतिपदोक्तं नपुंसकं तदिह गृह्रते। न चेह तथाविधं नपुंसकत्वम्()। अत्र तु "अभिधेयवल्लिङ्गवचनानि भवन्ति" (व्या।प।७३) इति ब्राआहृणकुलस्याभिधेयसय नपुंसकत्वात्()। न तत्? प्रतिपदोक्तम्()॥