पूर्वम्: ६।२।९४
अनन्तरम्: ६।२।९६
 
सूत्रम्
कुमार्यां वयसि॥ ६।२।९५
काशिका-वृत्तिः
कुमार्याम् वयसि ६।२।९५

कुमार्याम् उत्तरपदे वयसि गम्यमाने पूर्वपदम् अन्तोदात्तं भवति। वृद्धकुमारी। जरत्कुमारी। कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तम् उपादाय प्रयुक्तो वृद्धादिभिर् वयो विशेषवचनैः समानाधिकरणो भवति। तच् च वयः इह गृह्यते, न कुमारत्वम् एव। वयसि इति किम्? परमकुमारी।
न्यासः
कुमार्यां वयसि। , ६।२।९५

"वृद्धकुमारी" इति। "विशेषणं विशेष्येण" २।१।५६ इति समासः। "जरत्कुमारी" इति। जरती चासौ कुमारी चेति "पूर्वकाल" २।१।४८ इत्यादिना समासः। उभयत्र "पुंवत्? कर्मधारय" ६।३।४१ इत्यादिना पुंवद्भावः। ननु च कुमारीशब्दः प्रथमे वयसि वर्तते, तथा हि "वयसि प्रथमे" ४।१।२० इति ङीबत्र विहितः, वृद्धाजरतीशब्दौ चरमे वयसि वर्तते, तत्कथमिह सामानाधिकरण्यम्()? इत्यत आह--"कुमारीशब्दः पुंसा सहासम्प्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तः" इति। असम्प्रयोगः=असम्बन्धः। तन्मात्रप्रवृत्तिनिवृत्तिसमुदायावयवः सामान्ये प्रवृत्तः। कुमारीशब्दो यथा वृद्धादिभिः वयोविशेषवचनैर्विशेष्यते तदा तैः समानाधिकरणो भवति। वयोविशेषोऽन्त्यं वयः। कथं पुनर्विशेषवचनं सामान्ये वर्तते? वयोग्रहणसामथ्र्यात्()। यदि वृद्धकुमारीशब्दः प्रथमे वयसि वर्तते वयोग्रहणमनर्थकं स्यात्()। यतर कुमारीशब्दः प्रयुज्यते प्रथमवयोवाची, तत्र नियोगतो वयो गम्यत एवेति किं वयोग्रहणेन! तस्माद्वयोग्रहणसामथ्र्यात्? यथोक्तेन प्रकारेण वयःसामान्ये प्रवर्तते। वयोग्रहणेन हि तस्माद्विशेषादपनीयासौ सामान्यवृत्तिराश्रीयते। "तच्च वय इह गृह्रते" इति। यत्र वत्र्तमानो विशेषवचनैः सह समानाधिकरणो भवति, तच्च वयो गृह्रते। चशब्दादन्यच्च यौवनादीनकुमारत्वमेवेति, न प्रथमवय इत्यर्थः। "परमकुमारी" इति। अत्र समासात्? पूज्यमानता; पूज्यमानत्वं तु दर्शनीयत्वात्()। दर्शनीया कन्येत्यर्थः। न ह्रत्र समासो वयोऽभिधानपरः। नापयुत्तरपदं वयःसामान्ये वर्तते॥